Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 107

Mokshadharma 107 (BORI 274, vulgate 280)

अध्यायः २७४

Shanti Parva Mokshadharma chapter 107 of 186.

60 verses

📖 Book View
  1. पितामह महाप्राज्ञ सर्वशास्त्रविशारद | अस्ति वृत्रवधादेव विवक्षा मम जायते

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  2. ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप | निहतो वासवेनेह वज्रेणेति ममानघ

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  3. कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः | ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  4. शृणु राजञ्ज्वरस्येह सम्भवं लोकविश्रुतम् | विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  5. अप्रमेयमनाधृष्यं सर्वलोकेषु भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  6. तत्र देवो गिरितटे हेमधातुविभूषिते | पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  7. शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ | तथा देवा महात्मानो वसवश्च महौजसः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  8. तथैव च महात्मानावश्विनौ भिषजां वरौ | तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  9. यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः | अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  10. विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ | अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  11. ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः | सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  12. तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः | महादेवं पशुपतिं पर्युपासन्त भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  13. भूतानि च महाराज नानारूपधराण्यथ | राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  14. बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः | देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  15. नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः | प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  16. गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा | पर्युपासत तं देवं रूपिणी कुरुनन्दन

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  17. एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः | देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  18. कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः | पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  19. ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः | गमनाय समागम्य बुद्धिमापेदिरे तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  20. ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः | देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  21. प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा | उवाच वचनं साध्वी देवं पशुपतिं पतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  22. भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः | ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  23. दक्षो नाम महाभागे प्रजानां पतिरुत्तमः | हयमेधेन यजते तत्र यान्ति दिवौकसः

    Meaning

    {"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  24. यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि | केन वा प्रतिषेधेन गमनं ते न विद्यते

    Meaning

    {"speaker":"उमा","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  25. सुरैरेव महाभागे सर्वमेतदनुष्ठितम् | यज्ञेषु सर्वेषु मम न भाग उपकल्पितः

    Meaning

    {"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  26. पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि | न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः

    Meaning

    {"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  27. भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः | अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया

    Meaning

    {"speaker":"उमा","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  28. अनेन ते महाभाग प्रतिषेधेन भागतः | अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ

    Meaning

    {"speaker":"उमा","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  29. एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् | तूष्णीम्भूताभवद्राजन्दह्यमानेन चेतसा

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  30. अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् | स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  31. सहसा घातयामास देवदेवः पिनाकधृक्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  32. केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे | रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  33. केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः | आस्यैरन्ये चाग्रसन्त तथैव परिचारकान्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  34. ततः स यज्ञो नृपते वध्यमानः समन्ततः | आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  35. तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः | धनुरादाय बाणं च तदान्वसरत प्रभुः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  36. ततस्तस्य सुरेशस्य क्रोधादमिततेजसः | ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  37. तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि | प्रादुर्बभूव सुमहानग्निः कालानलोपमः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  38. तत्र चाजायत तदा पुरुषः पुरुषर्षभ | ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  39. ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च | करालः कृष्णवर्णश्च रक्तवासास्तथैव च

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  40. तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः | देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  41. तेन तस्मिन्विचरता पुरुषेण विशां पते | पृथिवी व्यचलद्राजन्नतीव भरतर्षभ

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  42. हाहाभूते प्रवृत्ते तु नादे लोकभयङ्करे | पितामहो महादेवं दर्शयन्प्रत्यभाषत

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  43. भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो | क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  44. इमा हि देवताः सर्वा ऋषयश्च परन्तप | तव क्रोधान्महादेव न शान्तिमुपलेभिरे

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  45. यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम | ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  46. एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो | समर्था सकला पृथ्वी बहुधा सृज्यतामयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  47. इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते | भगवन्तं तथेत्याह ब्रह्माणममितौजसम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  48. परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक् | अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  49. ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा | शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  50. शीर्षाभितापो नागानां पर्वतानां शिलाजतुः | अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  51. खोरकः सौरभेयाणामूषरं पृथिवीतले | पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  52. रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् | नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  53. अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् | शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  54. मरणे जन्मनि तथा मध्ये चाविशते नरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  55. एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः | नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  56. अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः | व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  57. जगाम परमं स्थानं विष्णोरमिततेजसः

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  58. विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा | तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान्

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  59. इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया | विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते

    Meaning

    {"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":274,"vulgateChapter":280}

  60. इमां ज्वरोत्पत्तिमदीनमानसः; पठेत्सदा यः सुसमाहितो नरः | विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान्स यथामनीषितान्