Mokshadharma Parva · Chapter 15
Mokshadharma 15 — Bhṛgu-Bharadvāja Samvada (BORI 182, vulgate 188)
भृगुभरद्वाजसंवादः
Shanti Parva Mokshadharma chapter 15 of 186. Section: Bhṛgu-Bharadvāja Samvada.
17 verses
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम | वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
भृगुरुवाच|| जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः | वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः | नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा | तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः | दानादानरतिर्यश्च स वै क्षत्रिय उच्यते
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः | वेदाध्ययनसम्पन्नः स वैश्य इति सञ्ज्ञितः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः | त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते | न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः | एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् | विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह | त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत् | अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः | अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
तपोनित्येन दान्तेन मुनिना संयतात्मना | अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः | अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":182,"vulgateChapter":188}
शौचेन सततं युक्तस्तथाचारसमन्वितः | सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्