Mokshadharma Parva · Chapter 180
Mokshadharma 180 (BORI 347, vulgate 353)
अध्यायः ३४७
Shanti Parva Mokshadharma chapter 180 of 186.
16 verses
अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः | दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः | उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
अपि त्वमसि कल्याणि देवतातिथिपूजने | पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता | मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
नागभार्योवाच|| शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् | भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते | वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् | गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
नियताहारता नित्यं व्रतचर्या यथाक्रमम् | धर्मो हि धर्मसम्बन्धादिन्द्रियाणां विशेषणम्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
अहं कस्य कुतो वाहं कः को मे ह भवेदिति | प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत्
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते | तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते | सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
देवतानां महाभाग धर्मचर्या न हीयते | अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै | स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः | आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता | प्रस्थाप्यो मत्सकाशं स सम्प्राप्तो भुजगोत्तमः
Meaning
{"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":347,"vulgateChapter":353}
एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि | दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः