Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 154

Mokshadharma 154 (BORI 321, vulgate 327)

अध्यायः ३२१

Shanti Parva Mokshadharma chapter 154 of 186.

43 verses

📖 Book View
  1. गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः | य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  2. कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् | विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  3. मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः | स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  4. देवतानां च को देवः पितॄणां च तथा पिता | तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  5. गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ | न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  6. ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा | गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  7. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | नारदस्य च संवादमृषेर्नारायणस्य च

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  8. नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः | धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  9. कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे | नरो नारायणश्चैव हरिः कृष्णस्तथैव च

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  10. तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ | बदर्याश्रममासाद्य शकटे कनकामये

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  11. अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् | तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  12. तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि | यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  13. नूनं तयोरनुमते हृदि हृच्छयचोदितः | महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  14. नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् | तं देशमगमद्राजन्बदर्याश्रममाशुगः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  15. तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् | इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  16. सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः | एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  17. नरनारायणाभ्यां च कृष्णेन हरिणा तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  18. तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे | स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  19. कां देवतां नु यजतः पितॄन्वा कान्महामती

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  20. इति सञ्चिन्त्य मनसा भक्त्या नारायणस्य ह | सहसा प्रादुरभवत्समीपे देवयोस्तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  21. कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः | पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  22. तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् | उपोपविष्टः सुप्रीतो नारदो भगवानृषिः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  23. नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना | नमस्कृत्वा महादेवमिदं वचनमब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  24. प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  25. चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः | यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  26. पिता माता च सर्वस्य जगतः शाश्वतो गुरुः | कं त्वद्य यजसे देवं पितरं कं न विद्महे

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  27. श्रीभगवानुवाच|| अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् | तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  28. यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् | इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  29. तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  30. आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  31. नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः | आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  32. तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी | दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  33. ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः | मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  34. वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च | कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  35. एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः | तस्य देवस्य मर्यादां पूजयन्ति सनातनीम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  36. दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः | आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  37. स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः | ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  38. ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च | कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  39. मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः | स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  40. दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः | एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  41. तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः | भक्त्या सम्पूजयन्त्याद्यं गतिं चैषां ददाति सः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  42. ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः | एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":321,"vulgateChapter":327}

  43. इति गुह्यसमुद्देशस्तव नारद कीर्तितः | भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः