Mokshadharma Parva · Chapter 44
Mokshadharma 44 — Guru-Śiṣya Samvada (Vārṣṇeyādhyātma) (BORI 211, vulgate 217)
गुरुशिष्यसंवादः
Shanti Parva Mokshadharma chapter 44 of 186. Section: Guru-Śiṣya Samvada (Vārṣṇeyādhyātma).
48 verses
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः | जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान्
Meaning
{"speaker":"Yudhishthira","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
जनको जनदेवस्तु मिथिलायां जनाधिपः | और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तस्य स्म शतमाचार्या वसन्ति सततं गृहे | दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये | आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः | परिधावन्महीं कृत्स्नां जगाम मिथिलामपि
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये | सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
ऋषीणामाहुरेकं यं कामादवसितं नृषु | शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
यमाहुः कपिलं साङ्ख्याः परमर्षिं प्रजापतिम् | स मन्ये तेन रूपेण विस्मापयति हि स्वयम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् | पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तं समासीनमागम्य मण्डलं कापिलं महत् | पुरुषावस्थमव्यक्तं परमार्थं निबोधयत्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः | क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते | आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः | ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ | ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
एतन्मे भगवानाह कापिलेयाय सम्भवम् | तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम् | उपेत्य शतमाचार्यान्मोहयामास हेतुभिः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् | उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तस्मै परमकल्पाय प्रणताय च धर्मतः | अब्रवीत्परमं मोक्षं यत्तत्साङ्ख्यं विधीयते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत् | कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः | तदनाश्वासिकं मोघं विनाशि चलमध्रुवम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके | आगमात्परमस्तीति ब्रुवन्नपि पराजितः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः | आत्मानं मन्यते मोहात्तदसम्यक्परं मतम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते | अजरोऽयममृत्युश्च राजासौ मन्यते तथा
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे | किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि | प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किञ्चन
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा | अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
रेतो वटकणीकायां घृतपाकाधिवासनम् | जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम् | मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः | अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम् | कारणं लोभमोहौ तु दोषाणां च निषेवणम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम् | तृष्णासञ्जननं स्नेह एष तेषां पुनर्भवः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि | अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसङ्क्षयम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः | कथमस्मिन्स इत्येव सम्बन्धः स्यादसंहितः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
एवं सति च का प्रीतिर्दानविद्यातपोबलैः | यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् | सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत् | पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये | यथातीतानि पश्यन्ति तादृशः सत्त्वसङ्क्षयः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
जरया हि परीतस्य मृत्युना वा विनाशिना | दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च | आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
लोकयात्राविधानं च दानधर्मफलागमः | यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
इति सम्यङ्मनस्येते बहवः सन्ति हेतवः | एतदस्तीदमस्तीति न किञ्चित्प्रतिपद्यते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
तेषां विमृशतामेवं तत्तत्समभिधावताम् | क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः | आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
अर्थांस्तथात्यन्तसुखावहांश्च; लिप्सन्त एते बहवो विशुल्काः | महत्तरं दुःखमभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
विनाशिनो ह्यध्रुवजीवितस्य; किं बन्धुभिर्मित्रपरिग्रहैश्च | विहाय यो गच्छति सर्वमेव; क्षणेन गत्वा न निवर्तते च
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति | इतीदमालक्ष्य कुतो रतिर्भवे; द्विनाशिनो ह्यस्य न शर्म विद्यते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":211,"vulgateChapter":217}
इदमनुपधि वाक्यमच्छलं; परमनिरामयमात्मसाक्षिकम् | नरपतिरभिवीक्ष्य विस्मितः; पुनरनुयोक्तुमिदं प्रचक्रमे