Mokshadharma Parva · Chapter 63
Mokshadharma 63 (BORI 230, vulgate 236)
अध्यायः २३०
Shanti Parva Mokshadharma chapter 63 of 186.
21 verses
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते | ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये | किं नु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति | उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः | दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः | त्रयमेतत्पृथग्भूतमविवेकं तु केचन
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
एवमेतन्न चाप्येवमुभे चापि न चाप्युभे | कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः | तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च | कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः | तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
तपसा तदवाप्नोति यद्भूत्वा सृजते जगत् | तद्भूतश्च ततः सर्वो भूतानां भवति प्रभुः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः | वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः | परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् | कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा | संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा | दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः | गवां भूमेश्च ये चापामोषधीनां च ये रसाः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाश्रमाः | विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति | सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
विसृतं कालनानात्वमनादिनिधनं च यत् | कीर्तितं तत्पुरस्तान्मे यतः संयान्ति यान्ति च
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
धातेदं प्रभवस्थानं भूतानां संयमो यमः | स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":230,"vulgateChapter":236}
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिया फलम् | एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि