Mokshadharma Parva · Chapter 138
Mokshadharma 138 (BORI 305, vulgate 311)
अध्यायः ३०५
Shanti Parva Mokshadharma chapter 138 of 186.
21 verses
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप | पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् | जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् | पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च | बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् | विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च | भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा | एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः | संवत्सरवियोगस्य सम्भवेयुः शरीरिणः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव | आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा | प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते | कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति | तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः | देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
कर्णनासावनमनं दन्तदृष्टिविरागिता | सञ्ज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप | मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् | निशि चाहनि चात्मानं योजयेत्परमात्मनि
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् | अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
सर्वगन्धान्रसांश्चैव धारयेत समाहितः | तथा हि मृत्युं जयति तत्परेणान्तरात्मना
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
ससाङ्ख्यधारणं चैव विदित्वा मनुजर्षभ | जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":305,"vulgateChapter":311}
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् | शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः