Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 30

Mokshadharma 30 (BORI 197, vulgate 203)

अध्यायः १९७

Shanti Parva Mokshadharma chapter 30 of 186.

20 verses

📖 Book View
  1. मनुरुवाच|| यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् | ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  2. यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा | तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  3. स एव लुलिते तस्मिन्यथा रूपं न पश्यति | तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  4. अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः | दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  5. अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते | अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  6. तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् | निवर्तते तथा तर्षः पापमन्तं गतं यथा

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  7. विषयेषु च संसर्गाच्छाश्वतस्य नसंश्रयात् | मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  8. ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः | अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  9. प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी | तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  10. इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः | बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  11. अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः | मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  12. यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा | विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  13. उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् | स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  14. अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः | प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  15. प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः | प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  16. विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  17. बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते | तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  18. अस्पर्शनमशृण्वानमनास्वादमदर्शनम् | अघ्राणमवितर्कं च सत्त्वं प्रविशते परम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  19. मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम् | मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":197,"vulgateChapter":203}

  20. इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः | न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति