Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 66

Mokshadharma 66 (BORI 233, vulgate 239)

अध्यायः २३३

Shanti Parva Mokshadharma chapter 66 of 186.

20 verses

📖 Book View
  1. यदिदं वेदवचनं कुरु कर्म त्यजेति च | कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा

    Meaning

    {"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  2. एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे | एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः

    Meaning

    {"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  3. इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् | कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  4. यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा | शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  5. अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत् | तस्य पक्षस्य सदृशमिदं मम भवेदथ

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  6. द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः | प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  7. कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते | तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  8. कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः | विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  9. कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः | तेन ते देहजालानि रमयन्त उपासते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  10. ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः | न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  11. कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ | विद्यया तदवाप्नोति यत्र गत्वा न शोचति

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  12. यत्र गत्वा न म्रियते यत्र गत्वा न जायते | न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  13. यत्र तद्ब्रह्म परममव्यक्तमजरं ध्रुवम् | अव्याहतमनायासममृतं चावियोगि च

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  14. द्वंद्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा | समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  15. विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः | विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  16. तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते | नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  17. एकादशविकारात्मा कलासम्भारसम्भृतः | मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  18. देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे | क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  19. तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् | जीवमात्मगुणं विद्यादात्मानं परमात्मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":233,"vulgateChapter":239}

  20. सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् | ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद्यो भुवनानि सप्त