Mokshadharma Parva · Chapter 35
Mokshadharma 35 (BORI 202, vulgate 208)
अध्यायः २०२
Shanti Parva Mokshadharma chapter 35 of 186.
33 verses
पितामह महाप्राज्ञ युधि सत्यपराक्रम | श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम्
Meaning
{"speaker":"Yudhishthira","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम् | तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ
Meaning
{"speaker":"Yudhishthira","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः | केन कार्यविसर्गेण तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः | तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
ततस्ते मधुपर्केण पूजां चक्रुरथो मयि | प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
कथैषा कथिता तत्र कश्यपेन महर्षिणा | मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः | बलेन मत्ताः शतशो नरकाद्या महासुराः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः | न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा | न शर्म लेभिरे राजन्विशमानास्ततस्ततः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
अथादितेयाः सन्त्रस्ता ब्रह्माणमिदमब्रुवन् | कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया | ते वरेणाभिसंमत्ता बलेन च मदेन च
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम् | वराहरूपिणं देवमधृष्यममरैरपि
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः | अन्तर्भूमिं सम्प्रविश्य जगाम दितिजान्प्रति
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम् | प्रसह्य सहसा सर्वे सन्तस्थुः कालमोहिताः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
सर्वे च समभिद्रुत्य वराहं जगृहुः समम् | सङ्क्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः | नाशक्नुवंश्च किञ्चित्ते तस्य कर्तुं तदा विभो
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा | संशयं गतमात्मानं मेनिरे च सहस्रशः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
ततो देवादिदेवः स योगात्मा योगसारथिः | योगमास्थाय भगवांस्तदा भरतसत्तम
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
विननाद महानादं क्षोभयन्दैत्यदानवान् | संनादिता येन लोकाः सर्वाश्चैव दिशो दश
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
तेन संनादशब्देन लोकाः सङ्क्षोभमागमन् | सम्भ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा | स्थावरं जङ्गमं चैव तेन नादेन मोहितम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः | पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
रसातलगतांश्चैव वराहस्त्रिदशद्विषः | खुरैः संदारयामास मांसमेदोस्थिसञ्चयम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
नादेन तेन महता सनातन इति स्मृतः | पद्मनाभो महायोगी भूताचार्यः स भूतराट्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः | उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
निहत्य दानवपतीन्महावर्ष्मा महाबलः | एष देवो महायोगी भूतात्मा भूतभावनः
Meaning
{"speaker":"पितामह","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः | स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः
Meaning
{"speaker":"पितामह","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
पद्मनाभो महायोगी भूतात्मा भूतभावनः
Meaning
{"speaker":"पितामह","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
लोकान्धारयतानेन नादो मुक्तो महात्मना
Meaning
{"speaker":"पितामह","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":202,"vulgateChapter":208}
स एव हि महाभागः सर्वलोकनमस्कृतः | अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः