Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 52

Mokshadharma 52 (BORI 219, vulgate 225)

अध्यायः २१९

Shanti Parva Mokshadharma chapter 52 of 186.

23 verses

📖 Book View
  1. अत्रैवोदाहरन्तीममितिहासं पुरातनम् | शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  2. श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् | भवाभवज्ञं भूतानामित्युवाच पुरंदरः

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  3. बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः | श्रिया विहीनो नमुचे शोचस्याहो न शोचसि

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  4. नमुचिरुवाच|| अनवाप्यं च शोकेन शरीरं चोपतप्यते | अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  5. तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् | सन्तापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  6. विनीय खलु तद्दुःखमागतं वैमनस्यजम् | ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  7. यथा यथा हि पुरुषः कल्याणे कुरुते मनः | तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  8. एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता | तेनानुशिष्टः प्रवणादिवोदकं; यथा नियुक्तोऽस्मि तथा वहामि

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  9. भावाभावावभिजानन्गरीयो; जानामि श्रेयो न तु तत्करोमि | आशाः सुशर्म्याः सुहृदां सुकुर्व; न्यथा नियुक्तोऽस्मि तथा वहामि

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  10. यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा | भवितव्यं यथा यच्च भवत्येव तथा तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  11. यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः | तत्र तत्रैव वसति न यत्र स्वयमिच्छति

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  12. भावो योऽयमनुप्राप्तो भवितव्यमिदं मम | इति यस्य सदा भावो न स मुह्येत्कदाचन

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  13. पर्यायैर्हन्यमानानामभियोक्ता न विद्यते | दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  14. ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च | कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न सम्भ्रमन्ति

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  15. न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति | न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  16. यमर्थसिद्धिः परमा न हर्षये; त्तथैव काले व्यसनं न मोहयेत् | सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरन्धरो नरः

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  17. यां यामवस्थां पुरुषोऽधिगच्छे; त्तस्यां रमेतापरितप्यमानः | एवं प्रवृद्धं प्रणुदेन्मनोजं; सन्तापमायासकरं शरीरात्

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  18. तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम् | धर्मतत्त्वमवगाह्य बुद्धिमा; न्योऽभ्युपैति स पुमान्धुरन्धरः

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  19. प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले | स्थानाच्च्युतश्चेन्न मुमोह गौतम; स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  20. न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा | अलभ्यं लभते मर्त्यस्तत्र का परिदेवना

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  21. यदेवमनुजातस्य धातारो विदधुः पुरा | तदेवानुभविष्यामि किं मे मृत्युः करिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  22. लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति | प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च

    Meaning

    {"speaker":"Bhishma","innerSection":"शक्रनमुचिसंवादः","subParva":"mokshadharma","boriChapter":219,"vulgateChapter":225}

  23. एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः | कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः