Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 148

Mokshadharma 148 (BORI 315, vulgate 321)

अध्यायः ३१५

Shanti Parva Mokshadharma chapter 148 of 186.

57 verses

📖 Book View
  1. एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः | अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  2. उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् | तन्नो मनसि संरूढं करिष्यामस्तथा च तत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  3. अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः | विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  4. शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने | वेदाननेकधा कर्तुं यदि ते रुचितं विभो

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  5. शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः | प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  6. क्षितिं वा देवलोकं वा गम्यतां यदि रोचते | अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  7. तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना | जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  8. अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् | संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  9. पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः | याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  10. अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् | तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  11. तं ददर्शाश्रमपदे नारदः सुमहातपाः | अथैनमब्रवीत्काले मधुराक्षरया गिरा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  12. भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते | एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  13. ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते | रजसा तमसा चैव सोमः सोपप्लवो यथा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  14. न भ्राजते यथापूर्वं निषादानामिवालयः | देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  15. ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः | विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  16. नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् | महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  17. एतन्मनोनुकूलं मे भवानर्हति भाषितुम् | सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  18. त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् | तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  19. यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर | वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  20. अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् | मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम्

    Meaning

    {"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  21. अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता | विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः

    Meaning

    {"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  22. नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् | तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  23. शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् | स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  24. तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः | वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  25. ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् | शुको वारितमात्रस्तु कौतूहलसमन्वितः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  26. अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् | आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  27. शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः | अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  28. दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः | तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  29. आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना | न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  30. देवयानचरो विष्णोः पितृयानश्च तामसः | द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  31. पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः | सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  32. तत्र देवगणाः साध्याः समभूवन्महाबलाः | तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  33. उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः | अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  34. अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः | पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  35. प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् | प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  36. प्रेरयत्यभ्रसङ्घातान्धूमजांश्चोष्मजांश्च यः | प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  37. अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः | आवहो नाम संवाति द्वितीयः श्वसनो नदन्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  38. उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः | अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  39. यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् | उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  40. योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति | उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  41. समुह्यमाना बहुधा येन नीलाः पृथग्घनाः | वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  42. संहता येन चाविद्धा भवन्ति नदतां नदाः | रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  43. योऽसौ वहति देवानां विमानानि विहायसा | चतुर्थः संवहो नाम वायुः स गिरिमर्दनः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  44. येन वेगवता रुग्णा रूक्षेणारुजता रसान् | वायुना विहता मेघा न भवन्ति बलाहकाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  45. दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान् | पञ्चमः स महावेगो विवहो नाम मारुतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  46. यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा | पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  47. दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः | योनिरंशुसहस्रस्य येन भाति वसुन्धरा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  48. यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च | षष्ठः परिवहो नाम स वायुर्जवतां वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  49. सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति | यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  50. सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया | ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  51. यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे | दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  52. येन सृष्टः पराभूतो यात्येव न निवर्तते | परावहो नाम परो वायुः स दुरतिक्रमः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  53. एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः | अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  54. एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः | कम्पितः सहसा तेन वायुनाभिप्रवायता

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  55. विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः | सहसोदीर्यते तात जगत्प्रव्यथते तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  56. तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति | वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":315,"vulgateChapter":321}

  57. एतावदुक्त्वा वचनं पराशरसुतः प्रभुः | उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा