Mokshadharma Parva · Chapter 142
Mokshadharma 142 (BORI 309, vulgate 315)
अध्यायः ३०९
Shanti Parva Mokshadharma chapter 142 of 186.
92 verses
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा | एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे
Meaning
{"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् | अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ | क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सत्यमार्जवमक्रोधमनसूयां दमं तपः | अहिंसां चानृशंस्यं च विधिवत्परिपालय
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् | देवतातिथिशेषेण यात्रां प्राणस्य संश्रय
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते | अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु | अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि | जीविते शिष्यमाणे च किमुत्थाय न धावसि
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् | पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः | अपथा गच्छतां तेषामनुयातापि पीड्यते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
ये तु तुष्टाः सुनियताः सत्यागमपरायणाः | धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् | नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः | सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
धर्मनिःश्रेणिमास्थाय किञ्चित्किञ्चित्समारुह | कोशकारवदात्मानं वेष्टयन्नावबुध्यसे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम् | वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् | नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
मृत्युनाभ्याहते लोके जरया परिपीडिते | अमोघासु पतन्तीषु धर्मयानेन सन्तर
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा | निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् | वृकीवोरणमासाद्य मृत्युरादाय गच्छति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
क्रमशः सञ्चितशिखो धर्मबुद्धिमयो महान् | अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सम्पतन्देहजालानि कदाचिदिह मानुषे | ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते | इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
ब्राह्मण्यं बहुभिरवाप्यते तपोभि; स्तल्लब्ध्वा न परिपणेन हेडितव्यम् | स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
अव्यक्तप्रकृतिरयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा | ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मांसाङ्गो द्रवति वयोहयो नराणाम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं; गच्छन्तं सततमिहाव्यपेक्षमाणम् | चक्षुस्ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
येऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततमनिष्टसम्प्रयोगाः | क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशमधर्मवासनाभिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान् | बहुविधमपि चरतः प्रदिशति; सुखमनुपगतं निरवद्यम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च सङ्घाः | नरां कदने रुधिरपा गुरुवचन; नुदमुपरतं विशसन्ति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
मर्यादा नियताः स्वयम्भुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात् | निवसति भृशमसुखं पितृविषय; विपिनमवगाह्य स पापः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात् | उपनिधिभिरसुखकृत्स परमनिरयगो; भृशमसुखमनुभवति दुष्कृतकर्मा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
उष्णां वैतरणीं महानदी; मवगाढोऽसिपत्रवनभिन्नगात्रः | परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
महापदानि कत्थसे न चाप्यवेक्षसे परम् | चिरस्य मृत्युकारिकामनागतां न बुध्यसे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
प्रयास्यतां किमास्यते समुत्थितं महद्भयम् | अतिप्रमाथि दारुणं सुखस्य संविधीयताम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् | तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् | तवेह जीवितं यमो न चास्ति तस्य वारकः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा विवाति मारुतो यमस्य यः पुरःसरः | पुरैक एव नीयसे कुरुष्व साम्परायिकम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः | पुरा च विभ्रमन्ति ते दिशो महाभयागमे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक | समाकुलस्य गच्छतः समाधिमुत्तमं कुरु
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
कृताकृते शुभाशुभे प्रमादकर्मविप्लुते | स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा जरा कलेवरं विजर्जरीकरोति ते | बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा शरीरमन्तको भिनत्ति रोगसायकैः | प्रसह्य जीवितक्षये तपो महत्समाचर
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा वृका भयङ्करा मनुष्यदेहगोचराः | अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै | पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः | विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
धनस्य यस्य राजतो भयं न चास्ति चौरतः | मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
न तत्र संविभज्यते स्वकर्मभिः परस्परम् | यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
परत्र येन जीव्यते तदेव पुत्र दीयताम् | धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
न यावदेव पच्यते महाजनस्य यावकम् | अपक्व एव यावके पुरा प्रणीयसे त्वर
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
न मातृपितृबान्धवा न संस्तुतः प्रियो जनः | अनुव्रजन्ति सङ्कटे व्रजन्तमेकपातिनम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यदेव कर्म केवलं स्वयं कृतं शुभाशुभम् | तदेव तस्य यौतकं भवत्यमुत्र गच्छतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
हिरण्यरत्नसञ्चयाः शुभाशुभेन सञ्चिताः | न तस्य देहसङ्क्षये भवन्ति कार्यसाधकाः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
परत्रगामिकस्य ते कृताकृतस्य कर्मणः | न साक्षिरात्मना समो नृणामिहास्ति कश्चन
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः | प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः | त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु | प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
अनेकपारिपन्थिके विरूपरौद्ररक्षिते | स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
न तत्र संविभज्यते स्वकर्मणा परस्परम् | यथाकृतं स्वकर्मजं तदेव भुज्यते फलम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यथाप्सरोगणाः फलं सुखं महर्षिभिः सह | तथाप्नुवन्ति कर्मतो विमानकामगामिनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः | तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः | व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे | अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः | कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम् | यथागृहीतमुत्थितं त्वरस्व धर्मपालने
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि | तथा गतिं गमिष्यतः किमात्मना परेण वा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यदेकपातिनां सतां भवत्यमुत्र गच्छताम् | भयेषु साम्परायिकं निधत्स्व तं महानिधिम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् | न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
इदं निदर्शनं मया तवेह पुत्र संमतम् | स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
दधाति यः स्वकर्मणा धनानि यस्य कस्यचित् | अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः | तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः | छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
किं ते धनेन किं बन्धुभिस्ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि | आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहास्ते क्व गताश्च सर्वे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् | को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः | अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान् | वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
एवमभ्याहते लोके कालेनोपनिपीडिते | सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः | सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि | धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच्च्यवते स मुह्यति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि | निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् | तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी | तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते | स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
तपोवनेषु ये जातास्तत्रैव निधनं गताः | तेषामल्पतरो धर्मः कामभोगमजानताम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् | न तेन किञ्चिन्न प्राप्तं तन्मे बहुमतं फलम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
मातापितृसहस्राणि पुत्रदारशतानि च | अनागतान्यतीतानि कस्य ते कस्य वा वयम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
न तेषां भवता कार्यं न कार्यं तव तैरपि | स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
इह लोके हि धनिनः परोऽपि स्वजनायते | स्वजनस्तु दरिद्राणां जीवतामेव नश्यति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
सञ्चिनोत्यशुभं कर्म कलत्रापेक्षया नरः | ततः क्लेशमवाप्नोति परत्रेह तथैव च
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा | तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
तदेतत्सम्प्रदृश्यैव कर्मभूमिं प्रविश्य ताम् | शुभान्याचरितव्यानि परलोकमभीप्सता
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
मासर्तुसञ्ज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन | स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
धनेन किं यन्न ददाति नाश्नुते; बलेन किं येन रिपून्न बाधते | श्रुतेन किं येन न धर्ममाचरे; त्किमात्मना यो न जितेन्द्रियो वशी
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":309,"vulgateChapter":315}
इदं द्वैपायनवचो हितमुक्तं निशम्य तु | शुको गतः परित्यज्य पितरं मोक्षदेशिकम्