Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 55

Mokshadharma 55 (BORI 222, vulgate 228)

अध्यायः २२२

Shanti Parva Mokshadharma chapter 55 of 186.

24 verses

📖 Book View
  1. किंशीलः किंसमाचारः किंविद्यः किम्परायणः | प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्

    Meaning

    {"speaker":"Yudhishthira","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  2. मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः | प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  3. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | जैगीषव्यस्य संवादमसितस्य च भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  4. जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम् | अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  5. न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि | का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  6. इति तेनानुयुक्तः स तमुवाच महातपाः | महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  7. या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम् | तां तेऽहं सम्प्रवक्ष्यामि यन्मां पृच्छसि वै द्विज

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  8. निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल | निह्नुवन्ति च ये तेषां समयं सुकृतं च ये

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  9. उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम् | प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  10. नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते | न चातीतानि शोचन्ति न चैनान्प्रतिजानते

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  11. सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल | यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  12. पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः | मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  13. अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन | न च जातूपतप्यन्ते धीराः परसमृद्धिभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  14. निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये | न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  15. विमुच्य हृदयग्रन्थींश्चङ्कम्यन्ते यथासुखम्

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  16. न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः | अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  17. ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  18. आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् | निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  19. यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः | न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  20. अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् | विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  21. अवज्ञातः सुखं शेते इह चामुत्र चोभयोः | विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  22. परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः | एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  23. सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः | प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"जैगीषव्यासितसंवादः","subParva":"mokshadharma","boriChapter":222,"vulgateChapter":228}

  24. नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः | पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम्