Mokshadharma Parva · Chapter 76
Mokshadharma 76 (BORI 243, vulgate 249)
अध्यायः २४३
Shanti Parva Mokshadharma chapter 76 of 186.
23 verses
गन्धान्रसान्नानुरुन्ध्यात्सुखं वा; नालङ्कारांश्चाप्नुयात्तस्य तस्य | मानं च कीर्तिं च यशश्च नेच्छे; त्स वै प्रचारः पश्यतो ब्राह्मणस्य
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान् | ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित् | नाकामो म्रियते जातु न तेन न च ब्राह्मणः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान् | नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथञ्चन
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति | यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
यदा न कुरुते भावं सर्वभूतेषु पापकम् | कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् | कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः | विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् | स कामकान्तो न तु कामकामः; स वै लोकात्स्वर्गमुपैति देही
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः | दमस्योपनिषद्दानं दानस्योपनिषत्तपः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम् | सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
क्लेदनं शोकमनसोः सन्तापं तृष्णया सह | सत्त्वमिच्छसि सन्तोषाच्छान्तिलक्षणमुत्तमम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः | षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः | ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् | अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः | यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान् | येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
सङ्गोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् | यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
समाहितं परे तत्त्वे क्षीणकाममवस्थितम् | सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः | सुखेनापोह्यते दुःखं भास्करेण तमो यथा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् | ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते | इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":243,"vulgateChapter":249}
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् | पुनरावर्तनं नास्ति सम्प्राप्तस्य परात्परम्