Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 53

Mokshadharma 53 (BORI 220, vulgate 226)

अध्यायः २२०

Shanti Parva Mokshadharma chapter 53 of 186.

118 verses

📖 Book View
  1. मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि | बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  2. त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ | एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि

    Meaning

    {"speaker":"Yudhishthira","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  3. पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च | मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  4. धैर्येण युक्तस्य सतः शरीरं न विशीर्यते | आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  5. यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः | तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  6. अत्रैवोदाहरन्तीममितिहासं पुरातनम् | बलिवासवसंवादं पुनरेव युधिष्ठिर

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  7. वृत्ते देवासुरे युद्धे दैत्यदानवसङ्क्षये | विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  8. इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते | समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  9. रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः | गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  10. चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् | आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  11. स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे | बलिं वैरोचनिं वज्री ददर्शोपससर्प च

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  12. तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् | सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  13. दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् | अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  14. दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया | तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  15. शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् | वैरोचने किमाश्रित्य शोचितव्ये न शोचसि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  16. श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् | हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  17. ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे | तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  18. बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः | हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  19. भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् | त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  20. एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् | श्रुत्वा सुखमसम्भ्रान्तो बलिर्वैरोचनोऽब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  21. निगृहीते मयि भृशं शक्र किं कत्थितेन ते | वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  22. अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः | कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  23. यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् | हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  24. अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः | एकः प्राप्नोति विजयमेकश्चैव पराभवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  25. मा च ते भूत्स्वभावोऽयं मया दैवतपुङ्गव | ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  26. नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् | यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  27. अहमासं यथाद्य त्वं भविता त्वं यथा वयम् | मावमंस्था मया कर्म दुष्कृतं कृतमित्युत

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  28. सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति | पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  29. कालः काले नयति मां त्वां च कालो नयत्ययम् | तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  30. न मातृपितृशुश्रूषा न च दैवतपूजनम् | नान्यो गुणसमाचारः पुरुषस्य सुखावहः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  31. न विद्या न तपो दानं न मित्राणि न बान्धवाः | शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  32. नागामिनमनर्थं हि प्रतिघातशतैरपि | शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  33. पर्यायैर्हन्यमानानां परित्राता न विद्यते | इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  34. यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन | यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  35. कालेन त्वाहमजयं कालेनाहं जितस्त्वया | गन्ता गतिमतां कालः कालः कलयति प्रजाः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  36. इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे | केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  37. कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः | कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसम्भ्रमे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  38. नित्यं कालपरीतस्य मम वा मद्विधस्य वा | बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  39. अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः | ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  40. त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया | काले परिणते कालः कालयिष्यति मामिव

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  41. बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे | अभ्यतीतानि कालेन कालो हि दुरतिक्रमः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  42. इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे | सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  43. न चेदमचलं स्थानमनन्तं वापि कस्यचित् | त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  44. अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् | ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  45. नेयं तव न चास्माकं न चान्येषां स्थिरा मता | अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  46. कञ्चित्कालमियं स्थित्वा त्वयि वासव चञ्चला | गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  47. राजलोका ह्यतिक्रान्ता यान्न सङ्ख्यातुमुत्सहे | त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  48. सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा | तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  49. पृथुरैलो मयो भौमो नरकः शम्बरस्तथा | अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  50. प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः | ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  51. सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः | बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  52. रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः | विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  53. हिरण्यकशिपुश्चैव कैटभश्चैव दानवः | दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  54. एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये | दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  55. बहवः पूर्वदैत्येन्द्राः सन्त्यज्य पृथिवीं गताः | कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  56. सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः | सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  57. अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः | सर्वे संहननोपेताः सर्वे परिघबाहवः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  58. सर्वे मायाशतधराः सर्वे ते कामचारिणः | सर्वे समरमासाद्य न श्रूयन्ते पराजिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  59. सर्वे सत्यव्रतपराः सर्वे कामविहारिणः | सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  60. सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे | न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  61. सर्वे यथार्थदातारः सर्वे विगतमत्सराः | सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  62. सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः | ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  63. त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः | न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  64. मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् | एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  65. शोककाले शुचो मा त्वं हर्षकाले च मा हृषः | अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  66. मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् | क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  67. त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह | संयते मयि नूनं त्वमात्मानं बहु मन्यसे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  68. कालः प्रथममायान्मां पश्चात्त्वामनुधावति | तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  69. को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे | कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  70. यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति | यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  71. अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि | सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  72. किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम् | कालः कर्ता विकर्ता च सर्वमन्यदकारणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  73. नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ | विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  74. त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव | विकत्थसे मां किं बद्धं कालेन निरपत्रप

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  75. त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम | समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  76. आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह | मया विनिर्जिताः सर्वे मरुतश्च शचीपते

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  77. त्वमेव शक्र जानासि देवासुरसमागमे | समेता विबुधा भग्नास्तरसा समरे मया

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  78. पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः | सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  79. किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः | न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  80. न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः | तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  81. त्वं मा परिणते काले परीतं कालवह्निना | नियतं कालपाशेन बद्धं शक्र विकत्थसे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  82. अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः | बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  83. लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ | वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  84. नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः | सोऽयं पचति कालो मां वृक्षे फलमिवागतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  85. यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते | पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  86. न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति | तेन शक्र न शोचामि नास्ति शोके सहायता

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  87. यदा हि शोचतां शोको व्यसनं नापकर्षति | सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  88. एवमुक्तः सहस्राक्षो भगवान्पाकशासनः | प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  89. सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् | कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  90. सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी | ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  91. हो हि विश्वासमर्थेषु शरीरे वा शरीरभृत् | कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  92. अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् | कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  93. न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् | सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  94. अनीशस्याप्रमत्तस्य भूतानि पचतः सदा | अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  95. अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु | प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  96. पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः | कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  97. अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान् | सम्पिण्डयति नः कालो वृद्धिं वार्धुषिको यथा

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  98. इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम् | कालो हरति सम्प्राप्तो नदीवेग इवोडुपम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  99. इदानीं तावदेवासौ मया दृष्टः कथं मृतः | इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  100. उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  101. सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी | अहमासं पुरा चेति मनसापि न बुध्यसे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  102. कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा | अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  103. ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च | स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  104. भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः | कालं पश्यति सुव्यक्तं पाणावामलकं यथा

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  105. कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः | वैरोचने कृतात्मासि स्पृहणीयो विजानताम्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  106. सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया | विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  107. रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम् | निष्प्रीतिं नष्टसन्तापं त्वमात्मानमुपाससे

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  108. सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् | दृष्ट्वा त्वां मम सञ्जाता त्वय्यनुक्रोशिनी मतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  109. नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने | आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  110. मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् | प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  111. यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते | पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  112. ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् | शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  113. वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा | सङ्करं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  114. चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति | एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  115. अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय | सुखी भव निराबाधः स्वस्थचेता निरामयः

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  116. तमेवमुक्त्वा भगवाञ्शतक्रतुः; प्रतिप्रयातो गजराजवाहनः | विजित्य सर्वानसुरान्सुराधिपो; ननन्द हर्षेण बभूव चैकराट्

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  117. महर्षयस्तुष्टुवुरञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम् | हिमापहो हव्यमुदावहंस्त्वरं; स्तथामृतं चार्पितमीश्वराय ह

    Meaning

    {"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":220,"vulgateChapter":226}

  118. द्विजोत्तमैः सर्वगतैरभिष्टुतो; विदीप्ततेजा गतमन्युरीश्वरः | प्रशान्तचेता मुदितः स्वमालयं; त्रिविष्टपं प्राप्य मुमोद वासवः