Mokshadharma Parva · Chapter 170
Mokshadharma 170 — Nārāyaṇīya — Hayaśiras Avatāra (BORI 337, vulgate 343)
नारायणीयम्
Shanti Parva Mokshadharma chapter 170 of 186. Section: Nārāyaṇīya — Hayaśiras Avatāra.
69 verses
साङ्ख्यं योगं पञ्चरात्रं वेदारण्यकमेव च | ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने | प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
जज्ञे बहुज्ञं परमत्युदारं; यं द्वीपमध्ये सुतमात्मवन्तम् | पराशराद्गन्धवती महर्षिं; तस्मै नमोऽज्ञानतमोनुदाय
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमार्षेयविभूतियुक्तम् | नारायणस्यांशजमेकपुत्रं; द्वैपायनं वेदमहानिधानम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तमादिकालेषु महाविभूति; र्नारायणो ब्रह्ममहानिधानम् | ससर्ज पुत्रार्थमुदारतेजा; व्यासं महात्मानमजः पुराणः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
त्वयैव कथितः पूर्वं सम्भवो द्विजसत्तम | वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः | भूयो नारायणसुतं त्वमेवैनं प्रभाषसे
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
किमतः पूर्वजं जन्म व्यासस्यामिततेजसः | कथयस्वोत्तममते जन्म नारायणोद्भवम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः | गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः | शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः | अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः | शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः | तमेकमनसं दान्तं युक्ता वयमुपास्महे
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः | वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् | नारायणादिदं जन्म व्याहर्तुमुपचक्रमे
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् | आदिकालोद्भवं विप्रास्तपसाधिगतं मया
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे | नारायणो महायोगी शुभाशुभविवर्जितः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् | ततः स प्रादुरभवदथैनं वाक्यमब्रवीत्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः | सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः | प्रणम्य वरदं देवमुवाच हरिमीश्वरम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते | अप्रज्ञावानहं देव विधत्स्व यदनन्तरम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः | चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् | योगेन चैनां निर्योगः स्वयं नियुयुजे तदा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् | उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये | ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः | भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत | प्राप चैव मुहूर्तेन स्वस्थानं देवसञ्ज्ञितम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् | अथास्य बुद्धिरभवत्पुनरन्या तदा किल
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः | भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तत्र न्याय्यमिदं कर्तुं भारावतरणं मया
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् | निग्रहेण च पापानां साधूनां प्रग्रहेण च
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् | मया ह्येषा हि ध्रियते पातालस्थेन भोगिना
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
मया धृता धारयति जगद्धि सचराचरम् | तस्मात्पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
एवं स चिन्तयित्वा तु भगवान्मधुसूदनः | रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
वाराहं नारसिंहं च वामनं मानुषं तथा | एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् | सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
अपान्तरतमा नाम सुतो वाक्सम्भवो विभोः | भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तपसा च सुतप्तेन यमेन नियमेन च
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
श्रीभगवानुवाच|| मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः | भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम भारताः | भविष्यन्ति महात्मानो राजानः प्रथिता भुवि
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति | परस्परविनाशार्थं त्वामृते द्विजसत्तम
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः | कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा | भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति | महेश्वरप्रसादेन नैतद्वचनमन्यथा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम् | वसिष्ठमग्र्यं तपसो निधानं; यश्चापि सूर्यं व्यतिरिच्य भाति
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
कानीनगर्भः पितृकन्यकायां; तस्मादृषेस्त्वं भविता च पुत्रः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः | ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः | पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
अनादिनिधनं लोके चक्रहस्तं च मां मुने | अनुध्यानान्मम मुने नैतद्वचनमन्यथा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
त्वमेव भविता वत्स मत्प्रसादान्न संशयः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
एवं सारस्वतमृषिमपान्तरतमं तदा | उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तदेतत्कथितं जन्म मया पूर्वकमात्मनः | नारायणप्रसादेन तथा नारायणांशजम्
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
मया हि सुमहत्तप्तं तपः परमदारुणम् | पुरा मतिमतां श्रेष्ठाः परमेण समाधिना
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः | पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया
Meaning
{"speaker":"Vyasa","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
एष ते कथितः पूर्वं सम्भवोऽस्मद्गुरोर्नृप | व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
साङ्ख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा | ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते | हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते | प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः | उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम् | सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः | न चैनमेवं जानन्ति तमोभूता विशां पते
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः | निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः | ससंशयान्हेतुबलान्नाध्यावसति माधवः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप | एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
साङ्ख्यं च योगं च सनातने द्वे; वेदाश्च सर्वे निखिलेन राजन् | सर्वैः समस्तैरृषिभिर्निरुक्तो; नारायणो विश्वमिदं पुराणम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":337,"vulgateChapter":343}
शुभाशुभं कर्म समीरितं य; त्प्रवर्तते सर्वलोकेषु किञ्चित् | तस्मादृषेस्तद्भवतीति विद्या; द्दिव्यन्तरिक्षे भुवि चाप्सु चापि