Mokshadharma Parva · Chapter 102
Mokshadharma 102 (BORI 269, vulgate 275)
अध्यायः २६९
Shanti Parva Mokshadharma chapter 102 of 186.
20 verses
किंशीलः किंसमाचारः किंविद्यः किम्परायणः | प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्
Meaning
{"speaker":"Yudhishthira","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः | प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः | समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
न चक्षुषा न मनसा न वाचा दूषयेदपि | न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् | नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
अतिवादांस्तितिक्षेत नाभिमन्येत्कथञ्चन | क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् | भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् | मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने | अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः | अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः | अभिपूजितलाभं हि जुगुप्सेतैव तादृशः
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
न चान्नदोषान्निन्देत न गुणानभिपूजयेत् | शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् | अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः | सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् | एतान्वेगान्विनयेद्वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः | एतत्पवित्रं परमं परिव्राजक आश्रमे
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः | अपूर्वचारकः सौम्यो अनिकेतः समाहितः
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् | अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
विजानतां मोक्ष एष श्रमः स्यादविजानताम् | मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्
Meaning
{"speaker":"Bhishma","innerSection":"हारीतगीता","subParva":"mokshadharma","boriChapter":269,"vulgateChapter":275}
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् | लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते