Mokshadharma Parva · Chapter 7
Mokshadharma 7 (BORI 174, vulgate 180)
अध्यायः १७४
Shanti Parva Mokshadharma chapter 7 of 186.
20 verses
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च | गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
आत्मनानर्थयुक्तेन पापे निविशते मनः | स कर्म कलुषं कृत्वा क्लेशे महति धीयते
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् | मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् | श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च | हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः | क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु | तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
सुशीघ्रमपि धावन्तं विधानमनुधावति | शेते सह शयानेन येन येन यथा कृतम्
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति | करोति कुर्वतः कर्म छायेवानुविधीयते
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
येन येन यथा यद्यत्पुरा कर्म समाचितम् | तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् | भूतग्राममिमं कालः समन्तात्परिकर्षति
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
अचोद्यमानानि यथा पुष्पाणि च फलानि च | स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम्
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
संमानश्चावमानश्च लाभालाभौ क्षयोदयौ | प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
आत्मना विहितं दुःखमात्मना विहितं सुखम् | गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् | तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् | तथा पूर्वकृतं कर्म कर्तारमनुगच्छति
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा | उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
दीर्घकालेन तपसा सेवितेन तपोवने | धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
शकुनीनामिवाकाशे मत्स्यानामिव चोदके | पदं यथा न दृश्येत तथा ज्ञानविदां गतिः
Meaning
{"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":174,"vulgateChapter":180}
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः | पेशलं चानुरूपं च कर्तव्यं हितमात्मनः