Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 112

Mokshadharma 112 (BORI 279, vulgate 285)

अध्यायः २७९

Shanti Parva Mokshadharma chapter 112 of 186.

25 verses

📖 Book View
  1. अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे | न तृप्याम्यमृतस्येव वचसस्ते पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  2. किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम | श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद

    Meaning

    {"speaker":"Yudhishthira","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  3. अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः | पराशरं महात्मानं पप्रच्छ जनको नृपः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  4. किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च | यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  5. ततः स तपसा युक्तः सर्वधर्मविधानवित् | नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  6. धर्म एव कृतः श्रेयानिह लोके परत्र च | तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  7. तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  8. चतुर्विधा हि लोकस्य यात्रा तात विधीयते | मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  9. सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः | दशार्धप्रविभक्तानां भूतानां बहुधा गतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  10. सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते | तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  11. नाबीजाज्जायते किञ्चिन्नाकृत्वा सुखमेधते | सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  12. दैवं तात न पश्यामि नास्ति दैवस्य साधनम् | स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  13. प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः | ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  14. लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः | शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  15. चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् | कुरुते यादृशं कर्म तादृशं प्रतिपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  16. निरन्तरं च मिश्रं च फलते कर्म पार्थिव | कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  17. कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति | मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  18. ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते | सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  19. दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता | ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  20. दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् | नित्यं मनःसमाधाने प्रयतेत विचक्षणः

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  21. नायं परस्य सुकृतं दुष्कृतं वापि सेवते | करोति यादृशं कर्म तादृशं प्रतिपद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  22. सुखदुःखे समाधाय पुमानन्येन गच्छति | अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  23. परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः | यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  24. भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्योऽनीहावान्हीनवर्णोऽलसश्च | विद्वांश्चाशीलो वृत्तहीनः कुलीनः; सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":279,"vulgateChapter":285}

  25. रागी मुक्तः पचमानोऽऽत्महेतो; र्मूर्खो वक्ता नृपहीनं च राष्ट्रम् | एते सर्वे शोच्यतां यान्ति राज; न्यश्चायुक्तः स्नेहहीनः प्रजासु