Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 121

Mokshadharma 121 (BORI 288, vulgate 294)

अध्यायः २८८

Shanti Parva Mokshadharma chapter 121 of 186.

45 verses

📖 Book View
  1. सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह | विद्वांसो मनुजा लोके कथमेतन्मतं तव

    Meaning

    {"speaker":"Yudhishthira","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  2. अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् | साध्यानामिह संवादं हंसस्य च युधिष्ठिर

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  3. हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः | स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  4. साध्या ऊचुः|| शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे | पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  5. श्रुतोऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन् | किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  6. तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम् | यत्कृत्वा वै पुरुषः सर्वबन्धै; र्विमुच्यते विहगेन्द्रेह शीघ्रम्

    Meaning

    {"speaker":"Bhishma","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  7. इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः | ग्रन्थीन्विमुच्य हृदयस्य सर्वा; न्प्रियाप्रिये स्वं वशमानयीत

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  8. नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत | ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  9. वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि | परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  10. परश्चेदेनमतिवादबाणै; र्भृशं विध्येच्छम एवेह कार्यः | संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  11. क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम् | अदुष्टचेता मुदितोऽनसूयुः; स आदत्ते सुकृतं वै परेषाम्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  12. आक्रुश्यमानो न वदामि किं चि; त्क्षमाम्यहं ताड्यमानश्च नित्यम् | श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  13. वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः | दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  14. वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् | एतान्वेगान्यो विषहत्युदीर्णां; स्तं मन्येऽहं ब्राह्मणं वै मुनिं च

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  15. अक्रोधनः क्रुध्यतां वै विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः | अमानुषान्मानुषो वै विशिष्ट; स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  16. आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः | आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  17. यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात् | पापं च यो नेच्छति तस्य हन्तु; स्तस्मै देवाः स्पृहयन्ते सदैव

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  18. पापीयसः क्षमेतैव श्रेयसः सदृशस्य च | विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  19. सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः | न चाप्यहं लिप्समानः परैमि; न चैव किञ्चिद्विषमेण यामि

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  20. नाहं शप्तः प्रतिशपामि किं चि; द्दमं द्वारं ह्यमृतस्येह वेद्मि | गुह्यं ब्रह्म तदिदं वो ब्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किञ्चित्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  21. विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः | विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  22. यः सर्वेषां भवति ह्यर्चनीय; उत्सेचने स्तम्भ इवाभिजातः | यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संयतात्मा

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  23. न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् | यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  24. यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा | वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  25. आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः | तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  26. अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः | सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  27. यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति | वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  28. चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः | उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  29. सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः | स्वाध्यायनित्योऽस्पृहयन्परेषा; मेकान्तशील्यूर्ध्वगतिर्भवेत्सः

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  30. सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् | न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  31. आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् | सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  32. यादृशैः संनिवसति यादृशांश्चोपसेवते | यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  33. यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव | वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  34. सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम् | नेन्दुः समः स्यादसमो हि वायु; रुच्चावचं विषयं यः स वेद

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  35. अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे | तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  36. शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम् | अपेतदोषानिति तान्विदित्वा; दूराद्देवाः सम्परिवर्जयन्ति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  37. न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा | सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह सम्भजन्ते

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  38. अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम् | धर्मं वदेद्व्याहृतं तत्तृतीयं; प्रियं वदेद्व्याहृतं तच्चतुर्थम्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  39. साध्या ऊचुः|| केनायमावृतो लोकः केन वा न प्रकाशते | केन त्यजति मित्राणि केन स्वर्गं न गच्छति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  40. अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते | लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  41. साध्या ऊचुः|| कः स्विदेको रमते ब्राह्मणानां; कः स्विदेको बहुभिर्जोषमास्ते | कः स्विदेको बलवान्दुर्बलोऽपि; कः स्विदेषां कलहं नान्ववैति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  42. प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर्जोषमास्ते | प्राज्ञ एको बलवान्दुर्बलोऽपि; प्राज्ञ एषां कलहं नान्ववैति

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  43. साध्या ऊचुः|| किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते | असाधुत्वं च किं तेषां किमेषां मानुषं मतम्

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  44. स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते | असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते

    Meaning

    {"speaker":"हंस","innerSection":"हंससाध्यसंवादः","subParva":"mokshadharma","boriChapter":288,"vulgateChapter":294}

  45. संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः | क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते