Mokshadharma Parva · Chapter 150
Mokshadharma 150 (BORI 317, vulgate 323)
अध्यायः ३१७
Shanti Parva Mokshadharma chapter 150 of 186.
30 verses
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् | निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
शोकस्थानसहस्राणि भयस्थानशतानि च | दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
तस्मादनिष्टनाशार्थमितिहासं निबोध मे | तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च | मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् | ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते | अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
नार्थो न धर्मो न यशो योऽतीतमनुशोचति | अप्यभावेन युज्येत तच्चास्य न निवर्तते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च | सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति | दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु सन्ततिम् | सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
दुःखोपघाते शारीरे मानसे वाप्युपस्थिते | यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् | चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः | एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः | आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
न जानपदिकं दुःखमेकः शोचितुमर्हति | अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः | स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
परित्यजति यो दुःखं सुखं वाप्युभयं नरः | अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः | दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः | अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः | संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् | तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति | स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
भूतेष्वभावं सञ्चिन्त्य ये बुद्ध्वा तमसः परम् | न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् | व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
अथाप्युपायं सम्पश्येद्दुःखस्य परिमोक्षणे | अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च | नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
प्राक्सम्प्रयोगाद्भूतानां नास्ति दुःखमनामयम् | विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा | चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च | विचरेदसमुन्नद्धः स सुखी स च पण्डितः
Meaning
{"speaker":"Narada","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":317,"vulgateChapter":323}
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः | आत्मनैव सहायेन यश्चरेत्स सुखी भवेत्