Mokshadharma Parva · Chapter 153
Mokshadharma 153 (BORI 320, vulgate 326)
अध्यायः ३२०
Shanti Parva Mokshadharma chapter 153 of 186.
41 verses
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः | प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः | ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते | ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च | प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः | निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
न बभासे सहस्रांशुर्न जज्वाल च पावकः | ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च | ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसम्भवे | संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत | उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
अदृश्येतां महाराज तदद्भुतमिवाभवत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः | न च प्रतिजघानास्य स गतिं पर्वतोत्तमः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् | गन्धर्वाणामृषीणां च ये च शैलनिवासिनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् | साधु साध्विति तत्रासीन्नादः सर्वत्र भारत
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा | यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः | आसीत्किल महाराज शुकाभिपतने तदा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् | शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः | शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः | उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् | दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः | निमेषान्तरमात्रेण शुकाभिपतनं ययौ
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् | शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा | स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः | प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
तत एकाक्षरं नादं भो इत्येव समीरयन् | प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् | गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा | गुणान्सन्त्यज्य शब्दादीन्पदमध्यगमत्परम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः | निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः | आसाद्य तमृषिं सर्वाः सम्भ्रान्ता गतचेतसः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे | वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा | सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
तं देवगन्धर्ववृतो महर्षिगणपूजितः | पिनाकहस्तो भगवानभ्यागच्छत शङ्करः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः | पुत्रशोकाभिसन्तप्तं कृष्णद्वैपायनं तदा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह | वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
स तथालक्षणो जातस्तपसा तव सम्भृतः | मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः | दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः | तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा | द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
सोऽनुनीतो भगवता स्वयं रुद्रेण भारत | छायां पश्यन्समावृत्तः स मुनिः परया मुदा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
इति जन्म गतिश्चैव शुकस्य भरतर्षभ | विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा | व्यासश्चैव महायोगी सञ्जल्पेषु पदे पदे
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":320,"vulgateChapter":326}
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् | धारयेद्यः शमपरः स गच्छेत्परमां गतिम्