Mokshadharma Parva · Chapter 80
Mokshadharma 80 (BORI 247, vulgate 253)
अध्यायः २४७
Shanti Parva Mokshadharma chapter 80 of 186.
13 verses
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय | द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे | ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम्
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता | गन्धो गुरुत्वं शक्तिश्च सङ्घातः स्थापना धृतिः
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता | जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम् | शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
वायोरनियमः स्पर्शो वादस्थानं स्वतन्त्रता | बलं शैघ्र्यं च मोहश्च चेष्टा कर्मकृता भवः
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च | अनाश्रयमनालम्बमव्यक्तमविकारिता
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
अप्रतीघातता चैव भूतत्वं विकृतानि च | गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
चलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा | सदसच्चाशुता चैव मनसो नव वै गुणाः
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
इष्टानिष्टविकल्पश्च व्यवसायः समाधिता | संशयः प्रतिपत्तिश्च बुद्धौ पञ्चेह ये गुणाः
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः | एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
आहुः षष्टिं भूतगुणान्वै; भूतविशिष्टा नित्यविषक्ताः | भूतविषक्ताश्चाक्षरसृष्टाः; पुत्र न नित्यं तदिह वदन्ति
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":247,"vulgateChapter":253}
तत्पुत्र चिन्ताकलितं यदुक्त; मनागतं वै तव सम्प्रतीह | भूतार्थतत्त्वं तदवाप्य सर्वं; भूतप्रभावाद्भव शान्तबुद्धिः