Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 1

Mokshadharma 1 — Senajit-Pingala Gita (BORI 168, vulgate 174)

सेनजित्पिङ्गलागीते

Shanti Parva Mokshadharma chapter 1 of 186. Section: Senajit-Pingala Gita.

53 verses

📖 Book View
  1. धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः | धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव

    Meaning

    {"speaker":"Yudhishthira","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  2. सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः | बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  3. यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् | स तमेवाभिजानाति नान्यं भरतसत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  4. यथा यथा च पर्येति लोकतन्त्रमसारवत् | तथा तथा विरागोऽत्र जायते नात्र संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  5. एवं व्यवसिते लोके बहुदोषे युधिष्ठिर | आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  6. नष्टे धने वा दारे वा पुत्रे पितरि वा मृते | यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  7. नष्टे धने वा दारे वा पुत्रे पितरि वा मृते | अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  8. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  9. पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम् | विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  10. किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि | यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  11. त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते | सर्वे तत्र गमिष्यामो यत एवागता वयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  12. सेनजिदुवाच|| का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन | किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि

    Meaning

    {"speaker":"Bhishma","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  13. पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः | आत्मापि चायं न मम सर्वा वा पृथिवी मम

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  14. यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा | एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  15. यथा काष्ठं च काष्ठं च समेयातां महोदधौ | समेत्य च व्यपेयातां तद्वद्भूतसमागमः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  16. एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा | तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  17. अदर्शनादापतितः पुनश्चादर्शनं गतः | न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  18. सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  19. सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् | न नित्यं लभते दुःखं न नित्यं लभते सुखम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  20. नालं सुखाय सुहृदो नालं दुःखाय शत्रवः | न च प्रज्ञालमर्थानां न सुखानामलं धनम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  21. न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये | लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  22. बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् | दुर्बलं बलवन्तं च भागिनं भजते सुखम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  23. धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च | पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  24. ये च मूढतमा लोके ये च बुद्धेः परं गताः | ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  25. अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे | अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  26. ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः | तान्नैवार्था न चानर्था व्यथयन्ति कदाचन

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  27. अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् | तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  28. नित्यप्रमुदिता मूढा दिवि देवगणा इव | अवलेपेन महता परिदृब्धा विचेतसः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  29. सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् | भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  30. सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् | प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  31. शोकस्थानसहस्राणि हर्षस्थानशतानि च | दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  32. बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् | दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  33. एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः | उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  34. यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा | आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  35. यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते | कामानुसारी पुरुषः कामाननु विनश्यति

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  36. यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् | तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  37. पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् | प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  38. एवमेव किलैतानि प्रियाण्येवाप्रियाणि च | जीवेषु परिवर्तन्ते दुःखानि च सुखानि च

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  39. वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  40. यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः | तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  41. किञ्चिदेव ममत्वेन यदा भवति कल्पितम् | तदेव परितापार्थं सर्वं सम्पद्यते तदा

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  42. न बिभेति यदा चायं यदा चास्मान्न बिभ्यति | यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  43. उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये | प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  44. यदा न कुरुते धीरः सर्वभूतेषु पापकम् | कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  45. या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः | योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  46. अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव | यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम्

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  47. सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता | अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  48. पिङ्गलोवाच|| उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् | अन्तिके रमणं सन्तं नैनमध्यगमं पुरा

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  49. एकस्थूणं नवद्वारमपिधास्याम्यगारकम् | का हि कान्तमिहायान्तमयं कान्तेति मंस्यते

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  50. अकामाः कामरूपेण धूर्ता नरकरूपिणः | न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  51. अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा | सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  52. सुखं निराशः स्वपिति नैराश्यं परमं सुखम् | आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला

    Meaning

    {"speaker":"Brahmana","innerSection":"सेनजित्पिङ्गलागीते","subParva":"mokshadharma","boriChapter":168,"vulgateChapter":174}

  53. एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः | पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम्