Mokshadharma Parva · Chapter 111
Mokshadharma 111 (BORI 278, vulgate 284)
अध्यायः २७८
Shanti Parva Mokshadharma chapter 111 of 186.
38 verses
तिष्ठते मे सदा तात कौतूहलमिदं हृदि | तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
कथं देवर्षिरुशना सदा काव्यो महामतिः | असुराणां प्रियकरः सुराणामप्रिये रतः
Meaning
{"speaker":"Yudhishthira","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
वर्धयामास तेजश्च किमर्थममितौजसाम् | नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः
Meaning
{"speaker":"Yudhishthira","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः | ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे
Meaning
{"speaker":"Yudhishthira","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
न याति च स तेजस्वी मध्येन नभसः कथम् | एतदिच्छामि विज्ञातुं निखिलेन पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
शृणु राजन्नवहितः सर्वमेतद्यथातथम् | यथामति यथा चैतच्छ्रुतपूर्वं मयानघ
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
एष भार्गवदायादो मुनिः सत्यो दृढव्रतः | असुराणां प्रियकरो निमित्ते करुणात्मके
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च | प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः | रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
हृते धने ततः शर्म न लेभे धनदस्तथा | आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
निवेदयामास तदा शिवायामिततेजसे | देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु | योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः
Meaning
{"speaker":"कुबेर","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः | संरक्तनयनो राजञ्शूलमादाय तस्थिवान्
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम् | उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम्
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः | गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
सञ्चिन्त्योग्रेण तपसा महात्मानं महेश्वरम् | उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
विज्ञातरूपः स तदा तपःसिद्धेन धन्विना | ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
आनतेनाथ शूलेन पाणिनामिततेजसा | पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः | आस्यं विवृत्य ककुदी पाणिं सम्प्राक्षिपच्छनैः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः | व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः | जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः
Meaning
{"speaker":"Yudhishthira","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः | वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात् | ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम् | तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शङ्करः | महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
स तेनाढ्यो महायोगी तपसा च धनेन च | व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् | उशना तु समुद्विग्नो निलिल्ये जठरे ततः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
तुष्टाव च महायोगी देवं तत्रस्थ एव च | निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
उशना तु तदोवाच जठरस्थो महामुनिः | प्रसादं मे कुरुष्वेति पुनः पुनररिंदम
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् | इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुङ्गवः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः | पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् | कार्येण तेन नभसो नागच्छत च मध्यतः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा | भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् | पुत्रत्वमगमद्देव्या वारिते शङ्करे च सः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
देव्युवाच|| हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः | न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत् | गच्छत्वेष यथाकाममिति राजन्पुनः पुनः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
ततः प्रणम्य वरदं देवं देवीमुमां तथा | उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः
Meaning
{"speaker":"Bhishma","innerSection":"अरिष्टनेमिसगरसंवादः","subParva":"mokshadharma","boriChapter":278,"vulgateChapter":284}
एतत्ते कथितं तात भार्गवस्य महात्मनः | चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि