Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 6

Mokshadharma 6 — Father-Son Dialogue (Pitaputra Samvada) (BORI 173, vulgate 179)

पितापुत्रसंवादः

Shanti Parva Mokshadharma chapter 6 of 186. Section: Father-Son Dialogue (Pitaputra Samvada).

52 verses

📖 Book View
  1. बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह | नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे

    Meaning

    {"speaker":"Yudhishthira","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  2. प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः | प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  3. प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये | प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  4. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  5. वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् | रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  6. आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् | मरिष्याम्यधनस्येह जीवितार्थो न विद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  7. तथा मुमूर्षुमासीनमकूजन्तमचेतसम् | इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  8. मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः | मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  9. मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप | सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  10. सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः | सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  11. अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः | पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  12. न पाणिलाभादधिको लाभः कश्चन विद्यते | अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  13. अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली | उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  14. हिमवर्षातपानां च परित्राणानि कुर्वते | चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  15. अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च | उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  16. ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः | सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  17. दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः | न सर्पो न च मण्डूको न चान्यः पापयोनिजः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  18. एतावतापि लाभेन तोष्टुमर्हसि काश्यप | किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  19. इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे | नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  20. अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् | नेतः पापीयसीं योनिं पतेयमपरामिति

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  21. मध्ये वै पापयोनीनां सार्गाली यामहं गतः | पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  22. जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः | नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  23. मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् | राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  24. भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् | देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  25. न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति | सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  26. अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि | सुखदुःखे तथा चोभे तत्र का परिदेवना

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  27. परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् | मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  28. न खल्वप्यरसज्ञस्य कामः क्वचन जायते | संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  29. न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् | ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  30. यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप | येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  31. अप्राशनमसंस्पर्शमसंदर्शनमेव च | पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  32. पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः | मनुष्या मानुषैरेव दासत्वमुपपादिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  33. वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः | ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  34. अपरे बाहुबलिनः कृतविद्या मनस्विनः | जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  35. उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् | स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  36. न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति | असन्तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  37. दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः | सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  38. यदि ब्राह्मण देहस्ते निरातङ्को निरामयः | अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  39. न केनचित्प्रवादेन सत्येनैवापहारिणा | धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  40. यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः | वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  41. स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय | सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  42. ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् | कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  43. इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः | उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  44. नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः | सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  45. अहमासं पण्डितको हैतुको वेदनिन्दकः | आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  46. हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् | आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  47. नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः | तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  48. अपि जातु तथा तत्स्यादहोरात्रशतैरपि | यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  49. सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः | ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  50. ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह | अहो बतासि कुशलो बुद्धिमानिति विस्मितः

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  51. समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा | ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"कश्यपसृगालसंवादः","subParva":"mokshadharma","boriChapter":173,"vulgateChapter":179}

  52. ततः सम्पूजयामास काश्यपो हरिवाहनम् | अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम्