Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 78

Mokshadharma 78 (BORI 245, vulgate 251)

अध्यायः २४५

Shanti Parva Mokshadharma chapter 78 of 186.

14 verses

📖 Book View
  1. शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् | कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  2. यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः | देहैर्विमुक्ता विचरन्ति लोकां; स्तथैव सत्त्वान्यतिमानुषाणि

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  3. प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते | सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  4. तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः | स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  5. स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम् | प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  6. यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि | वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  7. तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः | सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  8. मनोबुद्धिपराभूतः स्वदेहपरदेहवित् | स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  9. तत्रापि लभते दुःखं तत्रापि लभते सुखम् | क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  10. प्रीणितश्चापि भवति महतोऽर्थानवाप्य च | करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  11. तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम् | तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  12. शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः | अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  13. पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु | समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}

  14. विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् | प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति