Mokshadharma Parva · अध्याय 78
Mokshadharma 78 (BORI 245, vulgate 251)
अध्यायः २४५
Shanti Parva Mokshadharma chapter 78 of 186.
- Moksha 78.1Open verse →
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् | कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.2Open verse →
यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः | देहैर्विमुक्ता विचरन्ति लोकां; स्तथैव सत्त्वान्यतिमानुषाणि
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.3Open verse →
प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते | सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.4Open verse →
तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः | स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.5Open verse →
स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम् | प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.6Open verse →
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि | वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.7Open verse →
तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः | सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.8Open verse →
मनोबुद्धिपराभूतः स्वदेहपरदेहवित् | स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.9Open verse →
तत्रापि लभते दुःखं तत्रापि लभते सुखम् | क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.10Open verse →
प्रीणितश्चापि भवति महतोऽर्थानवाप्य च | करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.11Open verse →
तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम् | तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.12Open verse →
शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः | अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.13Open verse →
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु | समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":245,"vulgateChapter":251}
- Moksha 78.14Open verse →
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् | प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति