Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 100

Mokshadharma 100 (BORI 267, vulgate 273)

अध्यायः २६७

Shanti Parva Mokshadharma chapter 100 of 186.

38 verses

📖 Book View
  1. अत्रैवोदाहरन्तीममितिहासं पुरातनम् | नारदस्य च संवादं देवलस्यासितस्य च

    Meaning

    {"speaker":"Bhishma","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  2. आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः | नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  3. कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् | प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे

    Meaning

    {"speaker":"Bhishma","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  4. येभ्यः सृजति भूतानि कालो भावप्रचोदितः | महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  5. तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः | एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  6. विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् | महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  7. आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ | असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  8. नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् | वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  9. पञ्चैव तानि कालश्च भावाभावौ च केवलौ | अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  10. अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि | विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  11. तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम् | सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  12. चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी | इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  13. दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा | उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  14. रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः | इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  15. रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान् | इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  16. चित्तमिन्द्रियसङ्घातात्परं तस्मात्परं मनः | मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  17. इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  18. चित्तमिन्द्रियसङ्घातं मनो बुद्धिं तथाष्टमीम् | अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  19. पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम् | इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  20. जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते | गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  21. पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी | विसर्गे च पुरीषस्य विसर्गे चाभिकामिके

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  22. बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् | ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  23. इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा | भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  24. इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि | सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  25. सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः | कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  26. आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः | सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  27. जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः | भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  28. इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः | तेषामष्टादशो देही यः शरीरे स शाश्वतः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  29. अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् | संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  30. ऊष्मणा सह विंशो वा सङ्घातः पाञ्चभौतिकः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  31. महान्सन्धारयत्येतच्छरीरं वायुना सह | तस्यास्य भावयुक्तस्य निमित्तं देहभेदने

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  32. देहं विशति कालेन ततोऽयं कर्मसम्भवम्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  33. हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः | कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  34. तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः | कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धिमानिनः

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  35. न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते | भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  36. नैव सञ्जायते जन्तुर्न च जातु विपद्यते | याति देहमयं भुक्त्वा कदाचित्परमां गतिम्

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  37. पुण्यपापमयं देहं क्षपयन्कर्मसञ्चयात् | क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति

    Meaning

    {"speaker":"असित","innerSection":"नारददेवलसंवादः","subParva":"mokshadharma","boriChapter":267,"vulgateChapter":273}

  38. पुण्यपापक्षयार्थं च साङ्ख्यं ज्ञानं विधीयते | तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम्