Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 31

Mokshadharma 31 (BORI 198, vulgate 204)

अध्यायः १९८

Shanti Parva Mokshadharma chapter 31 of 186.

18 verses

📖 Book View
  1. मनुरुवाच|| ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः | प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  2. यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते | तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  3. सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते | अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  4. यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् | तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  5. मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम् | न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  6. सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः | मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  7. यथा महान्ति भूतानि निवर्तन्ते गुणक्षये | तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  8. यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी | व्यवसायगुणोपेता तदा सम्पद्यते मनः

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  9. गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः | तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  10. अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् | यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  11. तपसा चानुमानेन गुणैर्जात्या श्रुतेन च | निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  12. गुणहीनो हि तं मार्गं बहिः समनुवर्तते | गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  13. नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते | गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  14. यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः | तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम्

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  15. एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः | निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  16. पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च | अहङ्कारोऽभिमानश्च सम्भूतो भूतसञ्ज्ञकः

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  17. एकस्याद्या प्रवृत्तिस्तु प्रधानात्सम्प्रवर्तते | द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति

    Meaning

    {"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":198,"vulgateChapter":204}

  18. धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः | रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत्