Mokshadharma Parva · Chapter 54
Mokshadharma 54 (BORI 221, vulgate 227)
अध्यायः २२१
Shanti Parva Mokshadharma chapter 54 of 186.
94 verses
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः | पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
मन एव मनुष्यस्य पूर्वरूपाणि शंसति | भविष्यतश्च भद्रं ते तथैव नभविष्यतः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ | सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः | विचचार यथाकामं त्रिषु लोकेषु नारदः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि | ध्रुवद्वारभवां गङ्गां जगामावततार च
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सहस्रनयनश्चापि वज्री शम्बरपाकहा | तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः | नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् | पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् | आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम् | बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् | श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा | अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
नारदानुगतः साक्षान्मघवांस्तामुपागमत् | कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् | देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि | कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
श्रीरुवाच|| पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः | ममात्मभावमिच्छन्तो यतन्ते परमात्मना
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते | भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन | अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च | अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च | निवासे धर्मशीलानां विषयेषु पुरेषु च
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
जितकाशिनि शूरे च सङ्ग्रामेष्वनिवर्तिनि | निवसामि मनुष्येन्द्रे सदैव बलसूदन
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि | प्रश्रिते दानशीले च सदैव निवसाम्यहम्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना | विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने | दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
श्रीरुवाच|| स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च | स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् | विप्राणामतिथीनां च तेषां नित्यमवर्तत
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः | गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
श्रद्दधाना जितक्रोधा दानशीलानसूयकाः | भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन | न च जातूपतप्यन्ते धीराः परसमृद्धिभिः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
दातारः सङ्गृहीतार आर्याः करुणवेदिनः | महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सन्तुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः | यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः | उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः | रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः | मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् | अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् | दायं च संविभागं च नित्यमेवानुमोदताम्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम् | हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम् | अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन् | अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम् | सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
नैवाकाशे न पशुषु नायोनौ न च पर्वसु | इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा | उत्साहश्चानहङ्कारः परमं सौहृदं क्षमा
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा | मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
निद्रा तन्द्रीरसम्प्रीतिरसूया चानवेक्षिता | अरतिश्च विषादश्च न स्पृहा चाविशन्त तान्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
साहमेवङ्गुणेष्वेव दानवेष्ववसं पुरा | प्रजासर्गमुपादाय नैकं युगविपर्ययम्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
ततः कालविपर्यासे तेषां गुणविपर्ययात् | अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सभासदां ते वृद्धानां सत्याः कथयतां कथाः | प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
यूनः सहसमासीनान्वृद्धानभिगतान्सतः | नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः | अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
तथा धर्मादपेतेन कर्मणा गर्हितेन ये | महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
उच्छैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् | पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् | गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते | अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
न शौचमनुरुध्यन्त तेषां सूदजनास्तथा | मनसा कर्मणा वाचा भक्तमासीदनावृतम्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
विप्रकीर्णानि धान्यानि काकमूषकभोजनम् | अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् | द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते | नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन् | तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
पायसं कृसरं मांसमपूपानथ शष्कुलीः | अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः | अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
सङ्कराश्चाप्यवर्तन्त न च शौचमवर्तत
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये | निरन्तरविशेषास्ते बहुमानावमानयोः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम् | असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः | क्रीडारतिविहारेषु परां मुदमवाप्नुवन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् | नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः सम्भवेष्वपि
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित् | वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
परस्वादानरुचयो विपण्यव्यवहारिणः | अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे | अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव | अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः | कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः | शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत | अन्वशासच्च भर्तारं समाहूयाभिजल्पती
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता | व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन्
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् | दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भाविता ह्यपि
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः | अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
तेष्वेवमादीनाचारानाचरत्सु विपर्यये | नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
तां मां स्वयमनुप्राप्तामभिनन्द शचीपते | त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः | सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा | अष्टमी वृत्तिरेतासां पुरोगा पाकशासन
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता | त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु
Meaning
{"speaker":"शक्र","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः | नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
ततोऽनलसखो वायुः प्रववौ देववेश्मसु | इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः | लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा | रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणामभिसत्कृतो ययौ
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
अथेङ्गितं वज्रधरस्य नारदः; श्रियाश्च देव्या मनसा विचारयन् | श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
ततोऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयम्भुवः | अनाहता दुन्दुभयश्च नेदिरे; तथा प्रसन्नाश्च दिशश्चकाशिरे
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद्विचचाल कश्चन | अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः | नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
न जात्वकाले कुसुमं कुतः फलं; पपात वृक्षात्पवनेरितादपि | रसप्रदाः कामदुघाश्च धेनवो; न दारुणा वाग्विचचार कस्यचित्
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
इमां सपर्यां सह सर्वकामदैः; श्रियाश्च शक्रप्रमुखैश्च दैवतैः | पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियमाप्नुवन्ति ते
Meaning
{"speaker":"Bhishma","innerSection":"श्रीवासवसंवादः","subParva":"mokshadharma","boriChapter":221,"vulgateChapter":227}
त्वया कुरूणां वर यत्प्रचोदितं; भवाभवस्येह परं निदर्शनम् | तदद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुमर्हसि