Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 10

Mokshadharma 10 (BORI 177, vulgate 183)

अध्यायः १७७

Shanti Parva Mokshadharma chapter 10 of 186.

39 verses

📖 Book View
  1. एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा | आवृता यैरिमे लोका महाभूताभिसञ्ज्ञितैः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  2. यदासृजत्सहस्राणि भूतानां स महामतिः | पञ्चानामेव भूतत्वं कथं समुपपद्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  3. भृगुरुवाच|| अमितानां महाशब्दो यान्ति भूतानि सम्भवम् | ततस्तेषां महाभूतशब्दोऽयमुपपद्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  4. चेष्टा वयूः खमाकाशमूष्माग्निः सलिलं द्रवः | पृथिवी चात्र सङ्घातः शरीरं पाञ्चभौतिकम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  5. इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् | श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  6. पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः | स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  7. अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः | वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  8. न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः | न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  9. अद्रवत्वादनग्नित्वादभौमत्वादवायुतः | आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  10. भृगुरुवाच|| घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः | तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  11. ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च | म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  12. वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते | श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  13. वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति | न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  14. पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि | अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  15. पादैः सलिलपानं च व्याधीनामपि दर्शनम् | व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  16. वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् | तथा पवनसंयुक्तः पादैः पिबति पादपः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  17. ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात् | जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  18. तेन तज्जलमादत्तं जरयत्यग्निमारुतौ | आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  19. जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः | प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  20. त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम् | इत्येतदिह सङ्ख्यातं शरीरे पृथिवीमयम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  21. तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च | अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  22. श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च | आकाशात्प्राणिनामेते शरीरे पञ्च धातवः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  23. श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च | इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  24. प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा | गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  25. उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते | इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  26. भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् | ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  27. तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् | इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  28. निर्हारी संहतः स्निग्धो रूक्षो विशद एव च | एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  29. शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः | रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  30. एष षड्विधविस्तारो रसो वारिमयः स्मृतः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  31. शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते | ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  32. एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  33. शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते | वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  34. एवं द्वादशविस्तारो वायव्यो गुण उच्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  35. तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् | तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  36. षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा | धैवतश्चापि विज्ञेयस्तथा चापि निषादकः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  37. एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः | त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  38. आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह | अव्याहतैश्चेतयते न वेत्ति विषमागतैः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":177,"vulgateChapter":183}

  39. आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः | आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु