Mokshadharma Parva · Chapter 65
Mokshadharma 65 (BORI 232, vulgate 238)
अध्यायः २३२
Shanti Parva Mokshadharma chapter 65 of 186.
34 verses
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः | साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना | आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः | कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात् | सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा | चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् | एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च | वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः | एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा | शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति | सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः | प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् | ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा | ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
तत एतानि संयम्य मनसि स्थापयेद्यतिः | तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारयेत्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः | धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
एवं परिमितं कालमाचरन्संशितव्रतः | आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने | अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
प्रतिभामुपसर्गांश्चाप्युपसङ्गृह्य योगतः | तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः | गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव | एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
येनोपायेन शक्येत संनियन्तुं चलं मनः | तं तं युक्तो निषेवेत न चैव विचलेत्ततः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
शून्या गिरिगुहाश्चैव देवतायतनानि च | शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा | उपेक्षको यताहारो लब्धालब्धे समो भवेत्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
यश्चैनमभिनन्देत यश्चैनमपवादयेत् | समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् | समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः | षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः | एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी | तावप्येतेन मार्गेण गच्छेतां परमां गतिम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
अजं पुराणमजरं सनातनं; यदिन्द्रियैरुपलभते नरोऽचलः | अणोरणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":232,"vulgateChapter":238}
इदं महर्षेर्वचनं महात्मनो; यथावदुक्तं मनसानुदृश्य च | अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः