Mokshadharma Parva · Chapter 103
Mokshadharma 103 (BORI 270, vulgate 276)
अध्यायः २७०
Shanti Parva Mokshadharma chapter 103 of 186.
34 verses
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत | न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम | प्राप्य जातिं मनुष्येषु देवैरपि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम् | दुःखमेतच्छरीराणां धारणं कुरुसत्तम
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः | इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः | कदा वयं भविष्यामो राज्यं हित्वा परन्तप
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम् | पुनर्भावोऽपि सङ्ख्यातो नास्ति किञ्चिदिहाचलम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः | उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
ईशोऽयं सततं देही नृपते पुण्यपापयोः | तत एव समुत्थेन तमसा रुध्यतेऽपि च
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः | अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः | विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः | व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास्त उपासितव्याः | त्वया च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसङ्घाः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप | यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
निर्जितेनासहायेन हृतराज्येन भारत | अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् | कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् | न शोचामि न हृष्यामि भूतानामागतिं गतिम्
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः | परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
क्षपयित्वा तु तं कालं गणितं कालचोदिताः | सावशेषेण कालेन सम्भवन्ति पुनः पुनः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च | निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
एवं संसरमाणानि जीवान्यहमदृष्टवान् | यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च | सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते | गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् | मया यज्जयलुब्धेन पुरा तप्तं महत्तपः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
गन्धानादाय भूतानां रसांश्च विविधानपि | अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा | अजेयः सर्वभूतानामासं नित्यमपेतभीः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः | धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम्
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना | ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः | मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
नूनं तु तस्य तपसः सावशेषं ममास्ति वै | यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम्
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् | निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम्
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः | किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा | ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि
Meaning
{"speaker":"वृत्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":270,"vulgateChapter":276}
इतीदमुक्तः स मुनिस्तदानीं; प्रत्याह यत्तच्छृणु राजसिंह | मयोच्यमानं पुरुषर्षभ त्व; मनन्यचित्तः सह सोदरीयैः