Mokshadharma Parva · Chapter 143
Mokshadharma 143 (BORI 310, vulgate 316)
अध्यायः ३१०
Shanti Parva Mokshadharma chapter 143 of 186.
29 verses
कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः | सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः | न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः
Meaning
{"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः | यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित्
Meaning
{"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते | न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम्
Meaning
{"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह | यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः | ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव | तदिन्द्रियाणि संयम्य तपो भवति नान्यथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् | संनियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
अश्वमेधसहस्रस्य वाजपेयशतस्य च | योगस्य कलया तात न तुल्यं विद्यते फलम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा | शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते | विजहार महादेवो भीमैर्भूतगणैर्वृतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
शैलराजसुता चैव देवी तत्राभवत्पुरा | तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
योगेनात्मानमाविश्य योगधर्मपरायणः | धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो | वीर्येण संमितः पुत्रो मम भूयादिति स्म ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
सङ्कल्पेनाथ सोऽनेन दुष्प्रापेणाकृतात्मभिः | वरयामास देवेशमास्थितस्तप उत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः | आराधयन्महादेवं बहुरूपमुमापतिम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा | लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ | मरुतो मारुतश्चैव सागराः सरितस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ | विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् | धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसङ्कुले | आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
न चास्य हीयते वर्णो न ग्लानिरुपजायते | त्रयाणामपि लोकानां तदद्भुतमिवाभवत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः | प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
मार्कण्डेयो हि भगवानेतदाख्यातवान्मम | स देवचरितानीह कथयामास मे सदा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः | अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
एवंविधेन तपसा तस्य भक्त्या च भारत | महेश्वरः प्रसन्नात्मा चकार मनसा मतिम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव | एवंविधस्ते तनयो द्वैपायन भविष्यति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् | यथा च खं तथा शुद्धो भविष्यति सुतो महान्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":310,"vulgateChapter":316}
तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः | तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम्