Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 175

Mokshadharma 175 (BORI 342, vulgate 348)

अध्यायः ३४२

Shanti Parva Mokshadharma chapter 175 of 186.

16 verses

📖 Book View
  1. समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ | मित्रतामभिपन्नस्त्वां किञ्चिद्वक्ष्यामि तच्छृणु

    Meaning

    {"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  2. गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् | धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज

    Meaning

    {"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  3. अहमात्मानमात्मस्थमेक एवात्मनि स्थितः | कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः

    Meaning

    {"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  4. यावदेवानतीतं मे वयः पुत्रफलाश्रितम् | तावदिच्छामि पाथेयमादातुं पारलौकिकम्

    Meaning

    {"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  5. अस्मिन्हि लोकसन्ताने परं पारमभीप्सतः | उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः

    Meaning

    {"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  6. समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि | दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणामुपरि प्रजानाम्

    Meaning

    {"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  7. न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन्प्रार्थयतः परत्र | तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम्

    Meaning

    {"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  8. सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः | प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  9. अहमप्यत्र मुह्यामि ममाप्येष मनोरथः | न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  10. केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः | वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  11. राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम् | गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  12. मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः | अहिंसया परे स्वर्गं सत्येन च तथा परे

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  13. आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः | केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  14. केचिदध्ययने युक्ता वेदव्रतपराः शुभाः | बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  15. आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः | ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":342,"vulgateChapter":348}

  16. एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः | ममापि मतिराविग्ना मेघलेखेव वायुना