Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 119

Mokshadharma 119 (BORI 286, vulgate 292)

अध्यायः २८६

Shanti Parva Mokshadharma chapter 119 of 186.

41 verses

📖 Book View
  1. पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके | अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  2. पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति | ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  3. रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते | प्रयाति लोकानमरैः सुदुर्लभा; न्निषेवते स्वर्गफलं यथासुखम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  4. श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम् | अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  5. परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् | अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  6. तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः | निहीनात्कातराच्चैव नृपाणां गर्हितो वधः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  7. पापात्पापसमाचारान्निहीनाच्च नराधिप | पाप एव वधः प्रोक्तो नरकायेति निश्चयः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  8. न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् | सावशेषायुषं चापि कश्चिदेवापकर्षति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  9. स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् | हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  10. गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् | निधनं शोभनं तात पुलिनेषु क्रियावताम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  11. आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति | नाकारणात्तद्भवति कारणैरुपपादितम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  12. तथा शरीरं भवति देहाद्येनोपपादितम् | अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  13. द्वितीयं कारणं तत्र नान्यत्किञ्चन विद्यते | तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  14. सिरास्नाय्वस्थिसङ्घातं बीभत्सामेध्यसङ्कुलम् | भूतानामिन्द्रियाणां च गुणानां च समागमम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  15. त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः | गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  16. शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् | भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  17. तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  18. न जायते तु नृपते कञ्चित्कालमयं पुनः | परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  19. स पुनर्जायते राजन्प्राप्येहायतनं नृप | मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  20. द्विपदानामपि तथा द्विजा वै परमाः स्मृताः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  21. द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः | प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  22. जातमन्वेति मरणं नृणामिति विनिश्चयः | अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  23. आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् | नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  24. अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् | मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  25. विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः | दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  26. न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः | एवंविधैश्च बहुभिरपरैः प्राकृतैरपि

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  27. ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप | मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  28. एकः शत्रुर्न द्वितीयोऽस्ति शत्रु; रज्ञानतुल्यः पुरुषस्य राजन् | येनावृतः कुरुते सम्प्रयुक्तो; घोराणि कर्माणि सुदारुणानि

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  29. प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य | प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  30. अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च | वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  31. उपभोगैरपि त्यक्तं नात्मानमवसादयेत् | चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  32. इयं हि योनिः प्रथमा यां प्राप्य जगतीपते | आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  33. कथं न विप्रणश्येम योनितोऽस्या इति प्रभो | कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  34. यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः | धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  35. यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति | दीपोपमानि भूतानि यावदर्चिर्न नश्यति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  36. सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत | समदुःखसुखो भूत्वा स परत्र महीयते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  37. दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम् | सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  38. गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम् | यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  39. इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः | शक्त्या पित्र्यं यच्च किञ्चित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  40. धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप | श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}

  41. एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना | विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप

    Meaning

    {"speaker":"Bhishma","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":286,"vulgateChapter":292}