Mokshadharma Parva · Chapter 32
Mokshadharma 32 (BORI 199, vulgate 205)
अध्यायः १९९
Shanti Parva Mokshadharma chapter 32 of 186.
32 verses
मनुरुवाच|| यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह | अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः | मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु | तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
येन येन शरीरेण यद्यत्कर्म करोत्ययम् | तेन तेन शरीरेण तत्तत्फलमुपाश्नुते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी | तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता | अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा | ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा | क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः | अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
पृथिवीरूपतो रूपमपामिह महत्तरम् | अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
पवनाच्च महद्व्योम तस्मात्परतरं मनः | मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् | नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः | अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् | तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् | निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः | जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम् | न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते | अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् | अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
अदृष्टतोऽनुपायाच्च अप्यभिसन्धेश्च कर्मणः | न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात् | मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः | परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् | अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः | मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः | मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
बुद्धिप्रहीणो मनसासमृद्ध; स्तथा निराशीर्गुणतामुपैति | परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुरिवेन्धनस्थम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम् | अनेनैव विधिना सम्प्रवृत्तो; गुणादाने ब्रह्मशरीरमेति
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा; सोऽव्यक्तत्वं गच्छति ह्यन्तकाले | तैरेवायं चेन्द्रियैर्वर्धमानै; र्ग्लायद्भिर्वा वर्तते कर्मरूपः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात् | नासामर्थ्याद्गच्छति कर्मणेह; हीनस्तेन परमेणाव्ययेन
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
पृथ्व्या नरः पश्यति नान्तमस्या; ह्यन्तश्चास्या भविता चेति विद्धि | परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुरिवार्णवस्थम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
दिवाकरो गुणमुपलभ्य निर्गुणो; यथा भवेद्व्यपगतरश्मिमण्डलः | तथा ह्यसौ मुनिरिह निर्विशेषवा; न्स निर्गुणं प्रविशति ब्रह्म चाव्ययम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":199,"vulgateChapter":205}
अनागतिं सुकृतिमतां परां गतिं; स्वयम्भुवं प्रभवनिधानमव्ययम् | सनातनं यदमृतमव्ययं पदं; विचार्य तं शमममृतत्वमश्नुते