Mokshadharma Parva · Chapter 105
Mokshadharma 105 (BORI 272, vulgate 278)
अध्यायः २७२
Shanti Parva Mokshadharma chapter 105 of 186.
44 verses
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः | यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः | कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत | भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात्
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ | धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ | वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह | विस्तरेण महाबाहो परं कौतूहलं हि मे
Meaning
{"speaker":"Yudhishthira","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा | ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम | शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् | वृत्रस्य देवाः सन्त्रस्ता न शान्तिमुपलेभिरे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत | भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततो नादः समभवद्वादित्राणां च निस्वनः | देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् | न सम्भ्रमो न भीः काचिदास्था वा समजायत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततः समभवद्युद्धं त्रैलोक्यस्य भयङ्करम् | शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः | शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च | देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
पितामहपुरोगाश्च सर्वे देवगणास्तथा | ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ | गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः | अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः | अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
वृत्रश्च कुरुशार्दूल महामायो महाबलः | मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः | रथन्तरेण तं तत्र वसिष्ठः समबोधयत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण | त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि
Meaning
{"speaker":"Vasishtha","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः | सोमश्च भगवान्देवः सर्वे च परमर्षयः
Meaning
{"speaker":"Vasishtha","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा | आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर
Meaning
{"speaker":"Vasishtha","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः | निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर
Meaning
{"speaker":"Vasishtha","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः | स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै
Meaning
{"speaker":"Vasishtha","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
एवं सम्बोध्यमानस्य वसिष्ठेन महात्मना | अतीव वासवस्यासीद्बलमुत्तमतेजसः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततो बुद्धिमुपागम्य भगवान्पाकशासनः | योगेन महता युक्तस्तां मायां व्यपकर्षत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः | समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः | ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् | वसिष्ठश्च महातेजाः सर्वे च परमर्षयः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ते समासाद्य वरदं वासवं लोकपूजितम् | ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
एष वृत्रो महाञ्शक्र बलेन महता वृतः | विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः
Meaning
{"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् | जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर
Meaning
{"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
अनेन हि तपस्तप्तं बलार्थममराधिप | षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ
Meaning
{"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
महत्त्वं योगिनां चैव महामायत्वमेव च | महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर
Meaning
{"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
एतद्वै मामकं तेजः समाविशति वासव | वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम्
Meaning
{"speaker":"महेश्वर","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् | वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ
Meaning
{"speaker":"शक्र","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे | देवतानामृषीणां च हर्षान्नादो महानभूत्
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः | मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् | प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा | स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि
Meaning
{"speaker":"Bhishma","innerSection":"वृत्रगीता","subParva":"mokshadharma","boriChapter":272,"vulgateChapter":278}
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः | ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम्