Mokshadharma Parva · Chapter 126
Mokshadharma 126 (BORI 293, vulgate 299)
अध्यायः २९३
Shanti Parva Mokshadharma chapter 126 of 186.
50 verses
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् | सर्गकोटिसहस्राणि पतनान्तानि गच्छति
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
धाम्ना धामसहस्राणि मरणान्तानि गच्छति | तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः | लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते | नित्यमेतद्विजानीहि सोमः षोडशमी कला
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान् | धाम तस्योपयुञ्जन्ति भूय एव तु जायते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् | न तूपयुज्यते देवैर्देवानुपयुनक्ति सा
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
एवं तां क्षपयित्वा हि जायते नृपसत्तम | सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञकम् | ममायमिति मन्वानस्तत्रैव परिवर्तते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात् | विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव | अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम | प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते | स्त्रीपुंसोर्वापि भगवन्सम्बन्धस्तद्वदुच्यते
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत | ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात् | रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात् | ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम्
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा | अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम | एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते | वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम्
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ | पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
अथ वानन्तरकृतं किञ्चिदेव निदर्शनम् | तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् | अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम्
Meaning
{"speaker":"करालजनक","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् | एवमेतद्यथा चैतन्न गृह्णाति तथा भवान्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः | न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः | न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः | यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति | यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान् | स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः | सोपहासात्मतामेति यस्माच्चैवात्मवानपि
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते | याथातथ्येन साङ्ख्येषु योगेषु च महात्मसु
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदनुगम्यते | एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च | एतदैन्द्रियकं तात यद्भवानिदमाह वै
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा | देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः | कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च | एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च | अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् | नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः | यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते | पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः | केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः | तस्मादेवं विजानन्ति ये जना गुणदर्शिनः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते | तदा स गुणवानेव परमेणानुपश्यति
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
यत्तद्बुद्धेः परं प्राहुः साङ्ख्या योगाश्च सर्वशः | बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम् | निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः | साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः | बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
एतन्निदर्शनं सम्यगसम्यगनुदर्शनम् | बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् | एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते | एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम्
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम् | पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः
Meaning
{"speaker":"Vasishtha","innerSection":"वसिष्ठकरालजनकसंवादः","subParva":"mokshadharma","boriChapter":293,"vulgateChapter":299}
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् | वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम्