Mokshadharma Parva · Chapter 20
Mokshadharma 20 (BORI 187, vulgate 193)
अध्यायः १८७
Shanti Parva Mokshadharma chapter 20 of 186.
60 verses
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते | यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि | तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति | फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् | महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः | महाभूतानि भूतेषु सागरस्योर्मयो यथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः | तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् | अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् | वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते | रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः | महाभूतानि पञ्चैव षष्ठं तु मन उच्यते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत | सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
चक्षुरालोकनायैव संशयं कुरुते मनः | बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति | एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः | तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् | समवेक्ष्य शनैश्चैव लभते शममुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि | मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् | प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते | जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् | येन सङ्कल्पयत्यर्थं किञ्चिद्भवति तन्मनः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा | पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते | कदाचिल्लभते प्रीतिं कदाचिदनुशोचति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
न सुखेन न दुःखेन कदाचिदपि वर्तते | एवं नराणां मनसि त्रिषु भावेष्ववस्थिता
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते | सरितां सागरो भर्ता महावेलामिवोर्मिमान्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
अतिभावगता बुद्धिर्भावे मनसि वर्तते | प्रवर्तमानं हि रजस्तद्भावमनुवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा | प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु | इति बुद्धिगतिः सर्वा व्याख्याता तव भारत
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता | सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते | सात्त्विकी राजसी चैव तामसी चेति भारत
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः | तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् | वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः | प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत् | अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता | कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा | लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता | कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् | मनः सुनियतं यस्य स सुखी प्रेत्य चेह च
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः | सृजते तु गुणानेक एको न सृजते गुणान्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
मशकोदुम्बरौ चापि सम्प्रयुक्तौ यथा सदा | अन्योन्यमन्यौ च यथा सम्प्रयोगस्तथा तयोः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा | यथा मत्स्यो जलं चैव सम्प्रयुक्तौ तथैव तौ
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः | परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः | निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति | सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन | सत्त्वं मनः संसृजति न गुणान्वै कदाचन
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति | तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः | सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
यथा वारिचरः पक्षी लिप्यमानो न लिप्यते | एवमेव कृतप्रज्ञो भूतेषु परिवर्तते
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः | अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान् | ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते | प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे | उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् | विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः | अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
महानदीं हि पारज्ञस्तप्यते न तरन्यथा | एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् | अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते | अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः | तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् | विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
न भवति विदुषां ततो भयं; यदविदुषां सुमहद्भयं भवेत् | न हि गतिरधिकास्ति कस्य चि; त्सति हि गुणे प्रवदन्त्यतुल्यताम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
यत्करोत्यनभिसन्धिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम् | नाप्रियं तदुभयं कुतः प्रियं; तस्य तज्जनयतीह कुर्वतः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":187,"vulgateChapter":193}
लोक आतुरजनान्विराविण; स्तत्तदेव बहु पश्य शोचतः | तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं पदं सदा