Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 8

Mokshadharma 8 — Shamyaka Gita (BORI 175, vulgate 181)

शम्याकगीता

Shanti Parva Mokshadharma chapter 8 of 186. Section: Shamyaka Gita.

37 verses

📖 Book View
  1. कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् | प्रलये च कमभ्येति तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  2. ससागरः सगगनः सशैलः सबलाहकः | सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  3. कथं सृष्टानि भूतानि कथं वर्णविभक्तयः | शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्

    Meaning

    {"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  4. कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः | अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्

    Meaning

    {"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  5. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  6. कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा | भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  7. ससागरः सगगनः सशैलः सबलाहकः | सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  8. कथं सृष्टानि भूतानि कथं वर्णविभक्तयः | शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  9. कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः | परलोकमिमं चापि सर्वं शंसतु नो भवान्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  10. एवं स भगवान्पृष्टो भरद्वाजेन संशयम् | महर्षिर्ब्रह्मसङ्काशः सर्वं तस्मै ततोऽब्रवीत्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  11. मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः | अनादिनिधनो देवस्तथाभेद्योऽजरामरः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  12. अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः | यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  13. सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः | आकाशमिति विख्यातं सर्वभूतधरः प्रभुः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  14. आकाशादभवद्वारि सलिलादग्निमारुतौ | अग्निमारुतसंयोगात्ततः समभवन्मही

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  15. ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा | तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  16. अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् | ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  17. शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी | समुद्रास्तस्य रुधिरमाकाशमुदरं तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  18. पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः | अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  19. नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ | दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  20. स एव भगवान्विष्णुरनन्त इति विश्रुतः | सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  21. अहङ्कारस्य यः स्रष्टा सर्वभूतभवाय वै | यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  22. गगनस्य दिशां चैव भूतलस्यानिलस्य च | कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  23. भृगुरुवाच|| अनन्तमेतदाकाशं सिद्धचारणसेवितम् | रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  24. ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः | तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  25. ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः | दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  26. उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयम्प्रभैः | निरुद्धमेतदाकाशमप्रमेयं सुरैरपि

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  27. पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् | तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  28. रसातलान्ते सलिलं जलान्ते पन्नगाधिपः | तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  29. एवमन्तं भगवतः प्रमाणं सलिलस्य च | अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  30. अग्निमारुततोयानां वर्णाः क्षितितलस्य च | आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  31. अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  32. नामधेयानुरूपस्य मानसस्य महात्मनः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  33. यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः | कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  34. ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः | ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  35. पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम् | ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  36. भृगुरुवाच|| मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता | तस्यासनविधानार्थं पृथिवी पद्ममुच्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":175,"vulgateChapter":181}

  37. कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः | तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः