Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 14

Mokshadharma 14 (BORI 181, vulgate 187)

अध्यायः १८१

Shanti Parva Mokshadharma chapter 14 of 186.

20 verses

📖 Book View
  1. भृगुरुवाच|| असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः | आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान्

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  2. ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् | आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  3. देवदानवगन्धर्वदैत्यासुरमहोरगाः | यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  4. ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम | ये चान्ये भूतसङ्घानां सङ्घास्तांश्चापि निर्ममे

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  5. ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः | वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  6. चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते | सर्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  7. कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः | सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  8. स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् | तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  9. जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः | तेषां विविधवर्णानां कुतो वर्णविनिश्चयः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  10. भृगुरुवाच|| न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् | ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम्

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  11. कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः | त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  12. गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः | स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  13. हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः | कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  14. इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः | धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  15. वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती | विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  16. ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति | ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  17. ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः | तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  18. पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः | प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  19. प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः | ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः

    Meaning

    {"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":181,"vulgateChapter":187}

  20. आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया | सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा