Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 117

Mokshadharma 117 (BORI 284, vulgate 290)

अध्यायः २८४

Shanti Parva Mokshadharma chapter 117 of 186.

39 verses

📖 Book View
  1. एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः | तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  2. प्रायेण हि गृहस्थस्य ममत्वं नाम जायते | सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  3. गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च | दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  4. एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः | रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  5. रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् | मोहजाता रतिर्नाम समुपैति नराधिप

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  6. कृतार्थो भोगतो भूत्वा स वै रतिपरायणः | लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  7. ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् | पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  8. स जानन्नपि चाकार्यमर्थार्थं सेवते नरः | बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  9. ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् | करोति येन भोगी स्यामिति तस्माद्विनश्यति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  10. तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् | अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  11. स्नेहायतननाशाच्च धननाशाच्च पार्थिव | आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  12. निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्रदर्शनम् | शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  13. दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् | यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  14. तपः सर्वगतं तात हीनस्यापि विधीयते | जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  15. प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः | क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  16. आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः | विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  17. यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः | संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  18. ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा | ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  19. मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः | महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  20. कौशिकानि च वस्त्राणि शुभान्याभरणानि च | वाहनासनयानानि सर्वं तत्तपसः फलम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  21. मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः | वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  22. शयनानि च मुख्यानि भोज्यानि विविधानि च | अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  23. नाप्राप्यं तपसा किञ्चित्त्रैलोक्येऽस्मिन्परन्तप | उपभोगपरित्यागः फलान्यकृतकर्मणाम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  24. सुखितो दुःखितो वापि नरो लोभं परित्यजेत् | अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  25. असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः | ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  26. नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति | तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  27. यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते | कृताकृतस्य तपसः फलं पश्यस्व यादृशम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  28. नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते | प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  29. अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् | फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  30. धर्मे तपसि दाने च विचिकित्सास्य जायते | स कृत्वा पापकान्येव निरयं प्रतिपद्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  31. सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम | स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  32. इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता | रसने दर्शने घ्राणे श्रवणे च विशां पते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  33. ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः | बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  34. ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः | धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  35. अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा | प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  36. मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् | धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  37. क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् | तेषां नान्यदृते लोके तपसः कर्म विद्यते

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  38. सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् | दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":284,"vulgateChapter":290}

  39. यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् | एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्