Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 141

Mokshadharma 141 — Vyāsa-Śuka Samvada (longest chapter) (BORI 308, vulgate 314)

व्यासशुकसंवादः

Shanti Parva Mokshadharma chapter 141 of 186. Section: Vyāsa-Śuka Samvada (longest chapter).

191 verses

📖 Book View
  1. अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम | कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे

    Meaning

    {"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  2. संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः | परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  3. अत्राप्युदाहरन्तीममितिहासं पुरातनम् | जनकस्य च संवादं सुलभायाश्च भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  4. संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा | मैथिलो जनको नाम धर्मध्वज इति श्रुतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  5. स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः | इन्द्रियाणि समाधाय शशास वसुधामिमाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  6. तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् | लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  7. अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता | महीमनुचचारैका सुलभा नाम भिक्षुकी

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  8. तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः | तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  9. सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया | दर्शने जातसङ्कल्पा जनकस्य बभूव ह

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  10. ततः सा विप्रहायाथ पूर्वरूपं हि योगतः | अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  11. चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी | विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  12. सा प्राप्य मिथिलां रम्यां समृद्धजनसङ्कुलाम् | भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  13. राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा | केयं कस्य कुतो वेति बभूवागतविस्मयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  14. ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् | पूजितां पादशौचेन वरान्नेनाप्यतर्पयत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  15. अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम् | सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  16. सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया | सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  17. नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः | सा स्म सञ्चोदयिष्यन्तं योगबन्धैर्बबन्ध ह

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  18. जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन् | प्रतिजग्राह भावेन भावमस्या नृपोत्तमः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  19. तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम् | छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  20. भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि | कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  21. श्रुते वयसि जातौ च सद्भावो नाधिगम्यते | एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  22. छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः | स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  23. यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा | यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  24. पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः | भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  25. साङ्ख्यज्ञाने तथा योगे महीपालविधौ तथा | त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  26. स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् | वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  27. तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः | श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  28. सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् | मुक्तरागश्चराम्येकः पदे परमके स्थितः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  29. वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः | ज्ञानादेव च वैराग्यं जायते येन मुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  30. ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् | महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  31. सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया | इहैव गतमोहेन चरता मुक्तसङ्गिना

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  32. यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा | जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  33. यथा चोत्तापितं बीजं कपाले यत्र तत्र वा | प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  34. तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा | ज्ञानं कृतमबीजं मे विषयेषु न जायते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  35. नाभिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे | नाभिरज्यति चैतेषु व्यर्थत्वाद्रागदोषयोः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  36. यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् | सव्यं वास्या च यस्तक्षेत्समावेतावुभौ मम

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  37. सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः | मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  38. मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः | ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  39. ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः | कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  40. प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम् | तृतीयेयं समाख्याता निष्ठा तेन महात्मना

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  41. यमे च नियमे चैव द्वेषे कामे परिग्रहे | माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  42. त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् | छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  43. येन येन हि यस्यार्थः कारणेनेह कस्यचित् | तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  44. दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम् | उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  45. आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि | राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  46. अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् | मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  47. काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः | लिङ्गान्यत्यर्थमेतानि न मोक्षायेति मे मतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  48. यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् | निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  49. अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः | किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  50. आकिञ्चन्ये न मोक्षोऽस्ति कैञ्चन्ये नास्ति बन्धनम् | कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  51. तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे | बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  52. राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः | मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  53. सोऽहमेवङ्गतो मुक्तो जातास्थस्त्वयि भिक्षुकि | अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  54. सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः | तवैतानि समस्तानि नियमश्चेति संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  55. यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् | मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  56. न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम् | न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  57. मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः | आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  58. प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा | कस्य वा संनिसर्गात्त्वं प्रविष्टा हृदयं मम

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  59. वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम् | नावयोरेकयोगोऽस्ति मा कृथा वर्णसङ्करम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  60. वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे | अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसङ्करः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  61. सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् | सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसङ्करः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  62. अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित् | अगम्या परभार्येति चतुर्थो धर्मसङ्करः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  63. सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि | अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  64. अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित् | यदि किञ्चिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  65. इदमन्यत्तृतीयं ते भावस्पर्शविघातकम् | दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  66. न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः | येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  67. तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि | मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  68. सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता | भूयः सृजसि योगास्त्रं विषामृतमिवैकधा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  69. इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः | अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  70. एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  71. सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः | तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  72. न राजानं मृषा गच्छेन्न द्विजातिं कथञ्चन | न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  73. राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् | रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  74. अत एतैर्बलैरेते बलिनः स्वार्थमिच्छता | आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  75. सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः | कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  76. इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः | प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  77. उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना | ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  78. नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः | अपेतमुपपन्नार्थमष्टादशगुणान्वितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  79. सौक्ष्म्यं सङ्ख्याक्रमौ चोभौ निर्णयः सप्रयोजनः | पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  80. एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् | शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  81. ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते | तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  82. दोषाणां च गुणानां च प्रमाणं प्रविभागशः | कञ्चिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  83. इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् | क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  84. धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः | इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  85. इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते | तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  86. तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप | एकार्थसमवेतानि वाक्यं मम निशामय

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  87. उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम् | नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  88. न गुर्वक्षरसम्बद्धं पराङ्मुखमुखं न च | नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  89. न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च | न शेषं नानुकल्पेन निष्कारणमहेतुकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  90. कामात्क्रोधाद्भयाल्लोभाद्दैन्यादानार्यकात्तथा | ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  91. वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप | सममेति विवक्षायां तदा सोऽर्थः प्रकाशते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  92. वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते | स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  93. अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः | विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  94. यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते | श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  95. तदर्थवदिदं वाक्यमुपेतं वाक्यसम्पदा | अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  96. कासि कस्य कुतो वेति त्वयाहमभिचोदिता | तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  97. यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः | सुश्लिष्टानि तथा राजन्प्राणिनामिह सम्भवः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  98. शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च | पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  99. न चैषां चोदना काचिदस्तीत्येष विनिश्चयः | एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  100. संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  101. यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  102. ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः | विचारयति येनायं निश्चये साध्वसाधुनी

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  103. द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः | येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  104. अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः | महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  105. क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः | ममायमिति येनायं मन्यते न च मन्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  106. अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः | पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  107. गुणस्त्वेवापरस्तत्र सङ्घात इति षोडशः | आकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  108. सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये | इति चैकोनविंशोऽयं द्वंद्वयोग इति स्मृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  109. ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः | इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  110. विंशकश्चैष सङ्घातो महाभूतानि पञ्च च | सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  111. इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः | विधिः शुक्रं बलं चेति त्रय एते गुणाः परे

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  112. एकविंशश्च दश च कलाः सङ्ख्यानतः स्मृताः | समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  113. अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति | व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  114. अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम् | प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  115. सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता | अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  116. बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसम्भवाः | यासामेव निपातेन कललं नाम जायते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  117. कललादर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा | पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  118. सम्पूर्णे नवमे मासे जन्तोर्जातस्य मैथिल | जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  119. जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि | कौमाररूपमापन्नं रूपतो नोपलभ्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  120. कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात् | अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  121. कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे | वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  122. न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च | अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  123. तस्याप्येवम्प्रभावस्य सदश्वस्येव धावतः | अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  124. कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः | सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  125. यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः | भवत्येवं समुदयात्कलानामपि जन्तवः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  126. यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  127. कासि कस्य कुतो वेति वचने किं प्रयोजनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  128. रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे | कृतवान्यो महीपाल किं तस्मिन्मुक्तलक्षणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  129. त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु | सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  130. प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि | यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  131. तदमुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप | सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  132. तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम | आत्मनात्मनि सम्पश्येत्किं तस्मिन्मुक्तलक्षणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  133. इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित् | चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  134. य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह | एकमेव स वै राजा पुरमध्यावसत्युत

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  135. तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति | गृहे शयनमप्येकं निशायां यत्र लीयते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  136. शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति | तदनेन प्रसङ्गेन फलेनैवेह युज्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  137. एवमेवोपभोगेषु भोजनाच्छादनेषु च | गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  138. परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते | सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  139. स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता | मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  140. यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता | अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  141. स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः | शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  142. स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च | वदस्व शृणु चापीति विवशः कार्यते परैः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  143. अभिगम्याभिगम्यैनं याचन्ते सततं नराः | न चाप्युत्सहते दातुं वित्तरक्षी महाजनात्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  144. दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः | क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  145. प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते | भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  146. यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया | तदैवास्य भयं तेभ्यो जायते पश्य यादृशम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  147. सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही | निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  148. पुत्रा दारास्तथैवात्मा कोशो मित्राणि सञ्चयः | परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  149. हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः | लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  150. अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः | शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  151. द्वंद्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः | बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  152. तदल्पसुखमत्यर्थं बहुदुःखमसारवत् | को राज्यमभिपद्येत प्राप्य चोपशमं लभेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  153. ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे | बलं कोशममात्यांश्च कस्यैतानि न वा नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  154. मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः | सप्ताङ्गश्चक्रसङ्घातो राज्यमित्युच्यते नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  155. सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः | अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  156. तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते | येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  157. सप्ताङ्गश्चापि सङ्घातस्त्रयश्चान्ये नृपोत्तम | सम्भूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  158. यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् | स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  159. नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् | राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  160. योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः | पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  161. साहमेतानि कर्माणि राज्यदुःखानि मैथिल | समर्था शतशो वक्तुमथ वापि सहस्रशः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  162. स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे | न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  163. ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः | सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  164. तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः | छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  165. श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् | अथ वा श्रुतसङ्काशं श्रुतमन्यच्छ्रुतं त्वया

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  166. अथापीमासु सञ्ज्ञासु लौकिकीषु प्रतिष्ठसि | अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो मया

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  167. सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया | किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  168. नियमो ह्येष धर्मेषु यतीनां शून्यवासिता | शून्यमावासयन्त्या च मया किं कस्य दूषितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  169. न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ | न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  170. कुले महति जातेन ह्रीमता दीर्घदर्शिना | नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  171. ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः | त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  172. तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता | स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  173. यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् | तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  174. यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कञ्चन | ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  175. स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम् | उभयोरन्तराले च वर्तसे मोक्षवातिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  176. न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः | भावाभावसमायोगे जायते वर्णसङ्करः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  177. वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः | नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  178. पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः | आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  179. न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः | स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  180. पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च | परस्परपृथक्त्वाच्च कथं ते वर्णसङ्करः

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  181. नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा | तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  182. प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः | कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  183. द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः | मम सत्रेषु पूर्वेषां चिता मघवता सह

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  184. साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे | विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  185. नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी | न धर्मसङ्करकरी स्वधर्मेऽस्मि धृतव्रता

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  186. नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी | नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  187. मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी | तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  188. न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः | मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  189. यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत् | तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम्

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  190. साहमासनदानेन वागातिथ्येन चार्चिता | सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल

    Meaning

    {"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":308,"vulgateChapter":314}

  191. इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च | श्रुत्वा नाधिजगौ राजा किञ्चिदन्यदतः परम्