Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 57

Mokshadharma 57 — Yājñavalkya-Janaka Samvada (begin) (BORI 224, vulgate 230)

याज्ञवल्क्यजनकसंवादः

Shanti Parva Mokshadharma chapter 57 of 186. Section: Yājñavalkya-Janaka Samvada (begin).

75 verses

📖 Book View
  1. आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव | ध्यानं कर्म च कालं च तथैवायुर्युगे युगे

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  2. लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् | सर्गश्च निधनं चैव कुत एतत्प्रवर्तते

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  3. यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर | एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  4. पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् | भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  5. जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता | ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  6. अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् | जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  7. अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा | अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  8. कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः | पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  9. भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् | ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  10. तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते | अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  11. अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् | अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  12. काष्ठा निमेषा दश पञ्च चैव; त्रिंशत्तु काष्ठा गणयेत्कलां ताम् | त्रिंशत्कलाश्चापि भवेन्मुहूर्तो; भागः कलाया दशमश्च यः स्यात्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  13. संवत्सरं द्वे अयने वदन्ति; सङ्ख्याविदो दक्षिणमुत्तरं च

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  14. अहोरात्रे विभजते सूर्यो मानुषलौकिके | रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  15. पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः | कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  16. दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः | अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  17. ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके | तयोः सङ्ख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  18. तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः | कृते त्रेतायुगे चैव द्वापरे च कलौ तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  19. चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् | तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  20. इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु | एकापायेन संयान्ति सहस्राणि शतानि च

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  21. एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान् | एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  22. चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे | नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  23. इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते | चौरिकानृतमायाभिरधर्मश्चोपचीयते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  24. अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः | कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  25. वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम् | आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  26. अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे | अन्ये कलियुगे धर्मा यथाशक्तिकृता इव

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  27. तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् | द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  28. एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः | सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  29. रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः | प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  30. सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः | रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  31. प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये | सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  32. ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत् | एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  33. अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत् | अग्र एव महाभूतमाशु व्यक्तात्मकं मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  34. अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान् | दूरगं बहुधागामि प्रार्थनासंशयात्मकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  35. मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया | आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  36. आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः | बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  37. वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् | रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  38. ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः | अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  39. गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् | तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  40. उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात् | पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  41. एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक् | नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  42. ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः | शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  43. श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम् | तदाविशन्ति भूतानि महान्ति सह कर्मणा

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  44. सर्वभूतानि चादाय तपसश्चरणाय च | आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  45. स वै सृजति भूतानि स एव पुरुषः परः | अजो जनयते ब्रह्मा देवर्षिपितृमानवान्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  46. अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  47. तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे | तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  48. हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते | अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  49. महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु | विनियोगं च भूतानां धातैव विदधात्युत

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  50. केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः | दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  51. पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः | त्रय एतेऽपृथग्भूता नविवेकं तु केचन

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  52. एवमेतच्च नैवं च यद्भूतं सृजते जगत् | कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  53. तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः | तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  54. तपसा तदवाप्नोति यद्भूतं सृजते जगत् | स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  55. ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् | अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  56. ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः | शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  57. नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः | आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  58. यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः | तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  59. कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः | आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  60. द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् | शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  61. आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा | परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  62. त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे | द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  63. अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च | काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  64. त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः | संयन्तारः स्थावराणां जङ्गमानां च सर्वशः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  65. त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च | संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  66. दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः | उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  67. कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते | आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  68. अधर्मव्रतसंयोगं यथाधर्मं युगे युगे | विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  69. यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि | सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  70. यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये | दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  71. विहितं कालनानात्वमनादिनिधनं तथा | कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  72. दधाति प्रभवे स्थानं भूतानां संयमो यमः | स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  73. सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् | प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  74. प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि | यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":224,"vulgateChapter":230}

  75. दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा | सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत्