Mokshadharma Parva · Chapter 163
Mokshadharma 163 (BORI 330, vulgate 336)
अध्यायः ३३०
Shanti Parva Mokshadharma chapter 163 of 186.
71 verses
श्रीभगवानुवाच|| सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः | बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
हृषीकेशोऽहमीशानो वरदो लोकभावनः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
इडोपहूतयोगेन हरे भागं क्रतुष्वहम् | वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
धाम सारो हि लोकानामृतं चैव विचारितम् | ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् | गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् | तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् | शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः | मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
न हि जातो न जायेऽहं न जनिष्ये कदाचन | क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन | ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
सच्चासच्चैव कौन्तेय मयावेशितमात्मनि | पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् | जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय | सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् | कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना | वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते | तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके | तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः | ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
शब्द एकमतैरेष व्याहृतः परमर्षिभिः | नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् | घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः | पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते | आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत | नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते | तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च | अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
शुचीनि श्रवणीयानि शृणोमीह धनञ्जय | न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः | इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
तथैवासं त्रिककुदो वाराहं रूपमास्थितः | त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः | स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
विद्यासहायवन्तं मामादित्यस्थं सनातनम् | कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः | योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत | यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् | कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः | स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् | सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् | क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
पुराहमात्मजः पार्थ प्रथितः कारणान्तरे | धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् | धर्मयानं समारूढौ पर्वते गन्धमादने
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
तत्कालसमयं चैव दक्षयज्ञो बभूव ह | न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् | ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
वेगेन महता पार्थ पतन्नारायणोरसि
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
ततः स्वतेजसाविष्टाः केशा नारायणस्य ह | बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना | जगाम शङ्करकरं नारायणसमाहतम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
अथ रुद्रविघातार्थमिषीकां जगृहे नरः | मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा | ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा | जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
श्रीभगवानुवाच|| तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः | उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः | वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम्
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
देवान्रजस्तमश्चैव समाविविशतुस्तदा | वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः | अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
आजगामाशु तं देशं यत्र युद्धमवर्तत
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् | कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा | नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
मया च सार्धं वरदं विबुधैश्च महर्षिभिः | प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम्
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
शरणं च जगामाद्यं वरेण्यं वरदं हरिम्
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः | प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः | उवाच देवमीशानमीशः स जगतो हरिः
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु | नावयोरन्तरं किञ्चिन्मा ते भूद्बुद्धिरन्यथा
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् | मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते | तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम्
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
कालः स एव कथितः क्रोधजेति मया तव | निहतांस्तेन वै पूर्वं हतवानसि वै रिपून्
Meaning
{"speaker":"Arjuna","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":330,"vulgateChapter":336}
अप्रमेयप्रभावं तं देवदेवमुमापतिम् | नमस्व देवं प्रयतो विश्वेशं हरमव्ययम्