Mokshadharma Parva · Chapter 28
Mokshadharma 28 (BORI 195, vulgate 201)
अध्यायः १९५
Shanti Parva Mokshadharma chapter 28 of 186.
23 verses
मनुरुवाच|| अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम् | जलात्प्रसूता जगती जगत्यां जायते जगत्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
इमे शरीरैर्जलमेव गत्वा; जलाच्च तेजः पवनोऽन्तरिक्षम् | खाद्वै निवर्तन्ति नभाविनस्ते; ये भाविनस्ते परमाप्नुवन्ति
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम् | न शब्दवन्नापि च गन्धवत्त; न्न रूपवत्तत्परमस्वभावम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
स्पर्शं तनुर्वेद रसं तु जिह्वा; घ्राणं च गन्धाञ्श्रवणे च शब्दान् | रूपाणि चक्षुर्न च तत्परं य; द्गृह्णन्त्यनध्यात्मविदो मनुष्याः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शब्दात् | स्पर्शात्तनुं रूपगुणात्तु चक्षु; स्ततः परं पश्यति स्वं स्वभावम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यतो गृहीत्वा हि करोति यच्च; यस्मिंश्च तामारभते प्रवृत्तिम् | यस्मिंश्च यद्येन च यश्च कर्ता; तत्कारणं तं समुपायमाहुः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यच्चाभिभूः साधकं व्यापकं च; यन्मन्त्रवच्छंस्यते चैव लोके | यः सर्वहेतुः परमार्थकारी; तत्कारणं कार्यमतो यदन्यत्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथा च कश्चित्सुकृतैर्मनुष्यः; शुभाशुभं प्राप्नुतेऽथाविरोधात् | एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निबद्धम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशमन्यस्य करोति दीप्यन् | तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथा हि राज्ञो बहवो ह्यमात्याः; पृथक्प्रमानं प्रवदन्ति युक्ताः | तद्वच्छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथार्चिषोऽग्नेः पवनस्य वेगा; मरीचयोऽर्कस्य नदीषु चापः | गच्छन्ति चायान्ति च तन्यमाना; स्तद्वच्छरीराणि शरीरिणां तु
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथा च कश्चित्परशुं गृहीत्वा; धूमं न पश्येज्ज्वलनं च काष्ठे | तद्वच्छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यदन्यत्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
तान्येव काष्ठानि यथा विमथ्य; धूमं च पश्येज्ज्वलनं च योगात् | तद्वत्सुबुद्धिः सममिन्द्रियत्वा; द्बुधः परं पश्यति स्वं स्वभावम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथात्मनोऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनोऽन्यत् | श्रोत्रादियुक्तः सुमनाः सुबुद्धि; र्लिङ्गात्तथा गच्छति लिङ्गमन्यत्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
उत्पत्तिवृद्धिक्षयसंनिपातै; र्न युज्यतेऽसौ परमः शरीरी | अनेन लिङ्गेन तु लिङ्गमन्य; द्गच्छत्यदृष्टः प्रतिसन्धियोगात्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
न चक्षुषा पश्यति रूपमात्मनो; न चापि संस्पर्शमुपैति किञ्चित् | न चापि तैः साधयतेऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथा प्रदीपे ज्वलतोऽनलस्य; सन्तापजं रूपमुपैति किञ्चित् | न चान्तरं रूपगुणं बिभर्ति; तथैव तद्दृश्यते रूपमस्य
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
यथा मनुष्यः परिमुच्य काय; मदृश्यमन्यद्विशते शरीरम् | विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
खं वायुमग्निं सलिलं तथोर्वीं; समन्ततोऽभ्याविशते शरीरी | नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
श्रोत्रं खतो घ्राणमथो पृथिव्या; स्तेजोमयं रूपमथो विपाकः | जलाश्रयः स्वेद उक्तो रसश्च; वाय्वात्मकः स्पर्शकृतो गुणश्च
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु | सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनोऽन्वेति मनः स्वभावम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
शुभाशुभं कर्म कृतं यदस्य; तदेव प्रत्याददते स्वदेहे | मनोऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम्
Meaning
{"speaker":"","innerSection":"मनुबृहस्पतिसंवादः","subParva":"mokshadharma","boriChapter":195,"vulgateChapter":201}
चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद्रूपमिवाभिपाति | स्वरूपमालोचयते च रूपं; परं तथा बुद्धिपथं परैति