Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 84

Mokshadharma 84 (BORI 251, vulgate 257)

अध्यायः २५१

Shanti Parva Mokshadharma chapter 84 of 186.

26 verses

📖 Book View
  1. इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः | कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  2. धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत् | उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह

    Meaning

    {"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  3. सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् | चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  4. उभयत्र सुखोदर्क इह चैव परत्र च

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  5. अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति | न च पापकृतः पापान्मुच्यन्ते केचिदापदि

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  6. अपापवादी भवति यदा भवति धर्मवित् | धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  7. यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः | रमते निर्हरन्स्तेनः परवित्तमराजके

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  8. यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति | तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  9. अभीतः शुचिरभ्येति राजद्वारमशङ्कितः | न हि दुश्चरितं किञ्चिदन्तरात्मनि पश्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  10. सत्यस्य वचनं साधु न सत्याद्विद्यते परम् | सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  11. ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  12. यदा नियतिदौर्बल्यमथैषामेव रोचते

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  13. न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा | तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  14. असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः | न किञ्चित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  15. सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् | बहुधाचरितं पापमन्यत्रैवानुपश्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  16. मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा | न हि दुश्चरितं किञ्चिदात्मनोऽन्येषु पश्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  17. दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः | तं मन्यन्ते धनयुताः कृपणैः सम्प्रवर्तितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  18. यदा नियतिकार्पण्यमथैषामेव रोचते | न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  19. यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः | न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  20. योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति | यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  21. जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् | यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  22. अतिरिक्तैः संविभजेद्भोगैरन्यानकिञ्चनान् | एतस्मात्कारणाद्धात्रा कुसीदं सम्प्रवर्तितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  23. यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत् | अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  24. सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः | पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  25. लोकसङ्ग्रहसंयुक्तं विधात्रा विहितं पुरा | सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":251,"vulgateChapter":257}

  26. धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम | तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन